SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ थविरकप्प 2362- अभिधानराजेन्द्रः - भाग 4 थविरकप्प गच्छे गच्छवासिनामेषोऽनन्तरोक्तो विधितिव्य आनुपूर्व्या परिपाट्या, यदव नानात्वं विशेषस्तदहं वक्ष्ये समासेन। एतदेव सविशेषमाहसामायारी पुणरवि, तेसि इमा होइ गच्छवासीणं / पडिसेही व जिणाणं,जं जुञ्जइ वा तगं वोच्छं / / 20 / / सामाचारी पुनरपि तेषां गच्छवासिनां मासकल्पेन विहरतामेषा वक्ष्यमाणा भवति, जिनानां जिनकल्पिनामस्या एव सामाचार्याः प्रतिषेधो वा वक्तव्यः / यदा-प्रत्यपेक्षणाऽऽदिकं तेषामपि युज्यते तत् किमपि वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिपडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य। गच्छ सतिए अकप्पे, अंबिल भरिए अऊसित्ते // 821 / / परिहरणा अणुजाणे, पर कम्मे खलु तहेव गेलन्ने / गच्छपडिबंधऽहालं-दि उवरि दोसाय अववादे।८२२॥ प्रथमतः प्रत्युपेक्षणा वक्तव्या, ततो निष्क्रमणम्-कतिवारा उपाश्रयाद् निर्गन्तव्यमिति। प्राभृतिका सूक्ष्मबादरभेदाद् द्विविधा, भिक्षा गोचरचर्या, | कल्पकरणं च भाजनस्य धावनविधिलक्षण-मित्येतानि वक्तव्यानि / (गच्छ सइए त्ति) शतिकाः शतसंख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पालकेन प्रयोजनं भवेत्। तच (कप्पे अंबिल त्ति) कल्प्यं कल्पनीयम्, अम्ल च सौवीरंग्रहीतव्यम्, अनेन संबन्धेन सौवीरिणीसप्तकमभिधानीयम्। (भरिए त्ति) तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम्। (ऊसित्त त्ति) उत्से–चनमुत्सितं, सौवीरस्योत्सिञ्चनमित्यर्थः, तत्स्वरूपं च निरूपणीयम् / (परिहरण त्ति) नोदकः प्रश्रयिष्यति-यदि साम्प्रतं केष्वपि | गच्छेष्वित्थमाधाकर्माऽऽदयो दोषा उद्भवन्ति, तत् पूर्व सहस्त्रेषु गच्छेषु साधवः कथमाधाकर्माऽऽदीनां परिहरणं कृतवन्त इति? अत्राऽऽचार्यः प्रतिवक्ष्यति। अनुयानं रथयात्रा, उपलक्षणत्वात्स्नात्राऽऽदेरपि परिग्रहः / ततो यथा संप्रति रथयात्राऽऽदौ समवसरणे सहस्रसंख्याका अपि साधवो मिलिताः सन्तश्चाधाकर्माऽऽदिकं परिहरन्ति, तथा पूर्वमपि परिहृतवन्त इत्यनेन संबन्धेनानुयानविषयो विधिर्वक्तव्यः / ततः परं कर्मस्वरूपं निरूपयितव्यम्, खलुक्यालङ्कारे। तथैव ग्लानविधिः प्रतिपादनीयः। गच्छप्रतिबद्धानां यथालन्दिकानां सामाचारी दर्शनीया / तत उपरि मासकल्पादूर्द्ध तिष्ठतां स्थविरकल्पिकानां दोषा अभिधातव्याः। ततोऽपवादो द्वितीयपदभुपदर्शनीयमिति द्वारगाथाद्वयसमासार्थः / बृ०१ उ०। (प्रत्युपेक्षणा 'पडिलेहणा' शब्दे वक्ष्यते) अथ निष्क्रमणद्वारमाहनिरवेक्खो तइयाए, गच्छे निकारणम्मि तह चेव / बहुविक्खेव दसविहे, साविक्खे निग्गमो भइओ।।८३३ निरपेक्षो जिनकल्पिकः प्रतिमाप्रतिपन्नकाऽऽदिर्गच्छसत्कापेक्षारहितः,स तृतीयस्यामेव पौरुष्यामुपाश्रयाद् निर्गच्छति, गच्छे गच्छयासिनोऽपि साधवो निष्कारणे तथैव निर्गच्छन्ति, तृतीयस्यां पौरुष्यामित्यर्थः / परं गच्छे यदाऽऽचार्योपाध्यायाऽऽदिविषयभेदाद् दशविध वैयावृत्त्य, तेन यो बहुविधो व्याक्षेपः, तेन सापेक्षे गच्छवासिनि निर्गमो भजनीयः, कदाचित्तृतीयस्यां, कदाचित्प्रथमद्वितीयचतुर्थीषु वा पौरुषीष्विति। अथैनामेव नियुक्तिगाथां व्याख्यानयतिगहिए भिक्खं भोत्तुं, सोहिय आवस्स आलयमुवेइ। जहिं णिग्गतो तहिं चिय, एमेव य खित्तसंकमणे ||834 / निरपेक्षो भगवान् तृतीयपौरुष्यामुपाश्रयान्निर्गत्य भिक्षामटित्वा गृहीते सति भक्ष्ये अनापाते असंलोके च स्थाने भुक्त्वा आवश्यकं चसंज्ञाकायिकीलक्षणं शोधयित्वा, यस्यामेव पौरुष्यां निर्गतस्तस्यामेव भूय आलयमुपाश्रयमुपैति, तृतीयस्यामित्यर्थः / एवमेव च क्षेत्रसंक्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपि तृतीस्यां करोतीति भावः / स्थविरकल्पिका अपि निष्कारणे तृतीयस्यामेव भिक्षामटित्वा प्रतिश्रयमनुद्दिश्य संज्ञाभूमिं गत्वा तस्यामेव प्रत्यागच्छन्ति, क्षेत्रसंक्रमणमप्येवमेव, कारणतस्तु न कोऽपि प्रतिनियमः। तथा चाहअतरंतबालवुड्डे, तवस्सिआएसमाइकज्जेसु। बहुसो वि होज्ज विसणं, कुलाइकज्जेसु य विभासा / / 835! उच्चारविहारादी, संभमभयचेइवंदणाऽऽईया। आयपरोभयहेउं, विणिग्गमा वणिया गच्छे / / 836 / / अतरन्तो ग्लानस्तस्य, तथा बालवृद्धयोः, तपस्विनः क्षपकस्य, आदेशस्य प्राघूर्णकस्य, आदिशब्दादाचार्योपाध्यायशैक्षकलब्धिभत्प्रभृतीना यानि कार्याणि तत्प्रायोग्यभक्तपानौषधाऽऽदिग्रहणरूपाणि, तेषु बहुशोऽपि बहूनपि वारान गृहपतिगृहेषु प्रवेशनं गच्छसाधूनां भावति / तथा कुलं नागेन्द्रचान्द्राऽऽदि, आदिशब्दाद् गणः कुलसमुदायो, गणसमुदायः सङ्घः, चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्त्तव्या। सा चैषां कुले गणे सङ्के वा आभाव्याऽनाभा-व्यविषयः कोऽपि व्यवहारः समुपस्थितस्य यथावत्परिच्छेदनं कर्तव्यम्, प्रत्यनीको वा कोऽपि साधूनामुपस्थितस्तस्य शिक्षण विधेयम्, चैत्यद्रव्यं वा कश्चिन्निःशङ्क मुष्णाति स शासितव्यो वर्त्तत इत्यादि। तथा-उच्चारः पुरीषं, तस्योपलक्षणत्वात्प्रसवणाऽऽदेव्युत्सर्जनार्थ बहिर्गन्तव्यम्, विहारो नामवसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र गमनम्, आदिग्रहणात् पूर्वगृहीतपीठफलकप्रत्यर्पणप्रभृतिपरिग्रहः। संभ्रमोनामउदकाऽग्निहस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः। भयं तु सामान्येन समुत्थं दुष्टस्तेनाऽऽधुपद्रवप्रभवसु, चैत्यानि जिनबिम्बानि, तेषां वन्दनम् / आदिशब्दादपूर्वबहुश्रुताऽऽचार्यवन्दनाऽऽदिपरिग्रहः / एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्नि-मित्तं बहुशोऽपि प्रतिमाऽऽश्रयाद्विनिर्गमा वर्णिताः प्रतिपादिता इति / गतं निष्क्रमणद्वारम्। प्राभृतिका 'यसहि' शब्दे वक्ष्यते) (भिक्षा 'गोयरचरिया' शब्दे तृतीयभागे 667 पृष्ठे द्रष्टय्या) (कल्पकरण 'लेव' शब्द वक्ष्यते) (ग्लानाऽऽदिद्वाराणिग्लानाऽऽदिशब्देषु द्रष्टव्यानि) एत्तो उथेरकप्पं, समासओ मे निसामेहि। तिविहम्भि संजमम्मि उ, बोघव्वो होति थेरकप्पो तु॥ सामाइयछेदपरिहा-रिए य तिविहम्मि एअम्मि। ठिएँ अट्ठिए व कप्पे, सामाइयसंजमो मुणेयव्वो।। छेदपरिहारिया पुण, णियमाओ हवंति ठितकप्पे / एतेसु थेरकप्पो, जह जिणकप्पीण अग्गहो दोसु / / गहणं चऽभिग्गहाणं, पंचहि दोहिं च ण तह इत्तं /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy