SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कम्म 322 - अभिधानराजेन्द्रः - भाग 3 कम्म एवं सर्वे मिलिताद्वेशते विंशत्यधिके एते चतुर्विशतिगता इति चतुविश्यता गुण्यन्ते जातानि अशीत्यधिकानि द्विपञ्चाशच्छतानि। ततो द्विकोदया द्वादश एकोदयाः पञ्चमिलिताः सप्तदश ते पूर्वराशौ प्रक्षिप्यन्ते ततो जातानि सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि एतावन्ति लेश्यागुणिता उदयभङ्गाः / संप्रति लेश्यागुणितानि पदवृन्दानि भाव्यन्ते / ततोदयस्थानपदानि चतुर्विंशतिगतानि मिथ्यादृष्टौ अष्टषष्टिः सासादने द्वात्रिंशत् सम्यग्मिथ्यादृष्टावपि द्वात्रिंशत् अविरतसम्यग्दृष्टौ षष्टिः सर्वसंख्यया द्विनवत्यधिकं शतं एतच्च षडभिर्लेश्याभिर्गुण्यते ततो जातानि द्विपञ्चाशदध्किान्येकादश शतानि। तथा देशविरतौ द्विपञ्चाशत् प्रमत्ते चतुश्चत्वारिंशत् अप्रमत्तेऽपि चतुश्चत्वारिंशत सर्वे मिलिताः चत्वारिंशदधिकं शतं एतच तिसृभिर्लेश्याभिर्गुण्यते जातानि विंशत्यधिकानिचत्वारि शतानि।अपूर्वकरणे विंशतिः सा एकया लेश्यया गुणिता सैव विंशतिर्भवति ततः सर्वसंख्यया जातानि द्विन-वत्यधिकानि पञ्चदशशतानिएतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्तेजातानि अष्टत्रिंशत् सहस्राणि द्वे शते अष्टाधिके / ततो द्विकोदयैकोदयपदान्येकोनत्रिंशत् प्रक्षिप्यन्ते ततो जातानि अष्टत्रिंशत्सहस्राणि द्वे शते सप्तत्रिंशदधिके एतावन्ति लेश्यागुणितानिपदवृन्दानि उक्तंच 'तिगहीणा तेवन्ना,सयाउ उदयाण होति लेसाणं। अडतीस सहस्साई, पयाण सय दो य सगतीसा" तदेवमुक्तानि सप्रपञ्चमुदयस्थानानि। साप्रतं सत्तास्थानान्यभिधीयन्ते तिनेगे एगेगं, तिगमीसे पंचचउसु तिगपुटवे / एकार बायरम्मि उ, सुहुमे चउ तिन्नि उवसंते / / 57 / / एकस्मिन् मिथ्यादृष्टौ त्रीणि सत्तास्थानानि तद्यथा ऽष्टाविंशतिः सप्तविंशतिः षडर्विंशतिः / अत्र भावना प्रागेवोक्ता / तथा एकस्मिन् सासादने एकं सत्तास्थानंतद्यथा अष्टाविंशतिः मिश्रेत्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिः चतुर्विशतिः / तथा चतुर्ध्वविरतसम्यग्दृष्टिदेशविरतपमत्ताप्रमत्तरूपषु प्रत्येकं पञ्चपञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिः / निवृत्तेऽपूर्वकरणे च त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुविंशतिरेकविंशतिश्च / तत्राद्ये द्वे उपशमश्रेण्याने कविंशतिः क्षायिकसम्यग्दृष्टरुपशमश्रेण्या क्षपकश्रेण्यां वा (एक्कार बायरम्मित्ति) बादरे ऽनिवृतिबादरे एकादश सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुविंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका च। तत्राद्ये द्वे औपशमिकसम्यग्दृष्टरेकविंशतिः क्षायिकसम्यग्दृष्टरूपशमश्रेण्यां अथवा क्षपकश्रेण्यामपि यावत्कषायाष्टकं नक्षीयते कषायाष्टके तु क्षीणे त्रयोदश नपुंसकवेदे क्षीणे द्वादश ततः स्त्रीवेदे क्षीणे एकादश ततः षट्सु नोकषायेषु क्षीणेषु पञ्च ततः पुरुषवेदे क्षीणे चतस्रः संज्वलनक्रोधे क्षीणे तिस्त्र: संज्वलनमाने क्षीणे द्वे ततः संज्वलनमायायां क्षीणायामेकेति (सुहुमे चउत्ति) सूक्ष्मसंपराये चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेका च / तत्राद्यानि त्रीणि उपशमश्रेण्यामेका प्रकृतिः क्षपक श्रेण्यामुपशान्ते उपमशान्तमोहे त्रिणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविंशतिः प्राग्वद्भावना। संप्रति संवेध उच्यते / तत्र मिथ्यादृष्टौ द्वाविंशतिबन्धस्थानं चत्वारि उदयस्थानानि तद्यथा सप्त अष्टौ नव दश / तत्र सप्तोदये अष्टाविंशतिरूपमेकं सत्तास्थानम् ।अष्टादिषु तूदयस्थानेषु प्रत्येकं त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिः षडविंशतिश्च / सर्वसंख्यया दश। सासादने एकविंशतिबन्धस्थानं त्रीण्युदयस्थानानि तद्यथा सप्त अष्टौ नव। एतेषु प्रत्येकमेकं सत्तास्थानं तद्यथा अष्टाविंशतिः सर्वसंख्यया त्रीणि सत्तास्थानानि। सम्यग्मिथ्यादृष्टा बन्धस्थानं सप्तदश त्रीण्युदयस्थानानि तद्यथा सप्त अष्टा नव एतेषु प्रत्येक त्रीणि त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च / सर्वसंख्यया नव / अविरतसम्यग्दृष्टा बन्धस्थानं सप्तदश चत्वारि उदयस्थानानि तद्यथा षट्सप्त अष्टा नव तत्रषड्दये जीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिः एकविंशतिश्च ।सप्तोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिस्त्रयोविंशतिविंशतिरेकविंशतिःएतान्येव पञ्च अष्टोदये, नवोदये चत्वारितद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिः। सर्वसंख्यया सप्तदश देशविरते त्रयोदशबन्धस्थानं चत्वारि उदयस्थानानि तद्यथा पञ्च षट् सप्त अष्टौ तत्र पञ्चकोदये त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिशचतुर्विशतिरेकविंशतिः। षडुदये पञ्च सत्तास्थानानितद्यथा अष्टाविंशतिश्चतुर्विंशतिस्वयोविंशतिभविंशतिरेकविंशतिश्च। तान्येव पञ्च सप्तोदये। अष्टोदये त्वेकविंशतिवर्जानि चत्वारि सत्तास्थानानि तद्यथाअष्टाविंशतिश्चतुर्दिशतिस्वयोविंशतिाविंशतिश्च प्रमत्ते नव बन्धस्थानानि चत्वार्युदयस्थानानि तद्यथा चत्वारि पञ्च षट् सप्त / तत्राद्ये त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकाविंशतिश्च / पञ्चकोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिरेकविंशतिश्च एवं षडुदयेऽपि सप्तोदये एकविंशतिवर्जानि चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिं स्वयोविंशतिद्वाविंशतिश्च सर्वसंख्यया सप्तदश। एवमप्रमत्तेऽपि बन्धोदये सत्तास्थानसंबंधोऽन्यूनानतिरिक्तो वक्तव्यः। अपूर्वकरण बन्धस्थानानि नव, त्रीण्यु दयस्थानानि तद्यथा चत्वारि पञ्च षट् एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः सर्वसंख्यया नव। अनिवृत्तिबादरे पञ्च बन्धस्थानानि तद्यथा पञ्च चत्वारित्रीणि द्वे एक च / तत्र पञ्चके बन्धस्थाने द्विकोदये षट् सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश / चतुष्के बन्धस्थानेएकोदये षट्सत्तास्थानानितद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः एकादश पञ्च चत्वारस्त्रिके बन्धास्थाने एकोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविशतिश्चत्वारि त्रीणि / द्विके बन्धास्थाने एकोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविशतिस्त्रीणि द्वे एकस्मिन्बन्धेएकोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेस्त्रयोविंशति द्वे एकं च। सर्वसंख्यया सप्तविंशतिसत्तास्थानानिबन्धाभावे सूक्ष्म संपराये एकोदये चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेकं च / उपशान्तमोहबन्धोदयौ नस्तः / सत्तास्थानानि पुनस्त्रीणि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविंशति सर्वत्रापि च यथस्थानं भावना यथा प्रागधस्त्संवेधचिन्तायां कृता तथा अत्रापि कर्त्तव्या तदेवं चिन्तित गुणस्थानकेषु मोहनीयं। संप्रति नाम विचिन्तयिषुराह छन्नवछक्कतिगसत्त, दुगं दुर्ग तिगद्गं ति अट्ट चउ। दुगछबउ दुग पण चउचऊ,दुग चउ पणग एग चउ / / 58|| माया
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy