SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कम्म 323 - अभिधानराजेन्द्रः - भाग 3 कम्म एगेगमट्ठइगेगमट्ठ छ छउमत्थकेवलिजिणाणं। एग चउ एगं चउ, अट्ठ चउदु छक्कमुदयंसा ||5|| मिथ्यादृष्टौ नामः षट् बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशतिः षडविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत्। तत्रापर्याप्तकैकेन्द्रिय प्रायोग्य बध्नतस्त्रयोविंशतिस्तस्यां च बध्यमानायां बादरसूक्ष्मप्रत्येकसाधारगर्भङ्गाश्चत्वारः / पर्याप्तकैकेन्द्रियप्रायोग्यं पर्याप्तद्विचित्रतुरिन्द्रियतिर्यक्पञ्चेन्द्रि-यमनुष्यप्रायोग्यंचबध्नतः पञ्चविंशतिः। तत्र पर्याप्तकैकेन्द्रिय प्रायोग्यायांपञ्चविंशतौ बध्यमानायां भङ्गाः विंशतिः। अपर्याप्तद्विचित्रिचतुरिन्द्रियतिर्यक्पोन्द्रियमनुष्यप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पंचविंशतिः पर्याप्तकैकेन्द्रियप्रायोग्य बध्नतः षडविंशतिः तस्यांचबध्यमानायां भङ्गाः षोडश देवगतिप्रायोग्यां नरकगतिप्रायोग्यां वा बध्नतोऽष्टाविंशतिः। तत्र देवगति प्रायोग्यायामधाविंशतौ अष्टौ भङ्गाः नरकगतिप्रायोग्यायां त्वेक इति / सर्वसंख्यया नव / पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यं बध्नतामेकोनत्रिंशत् तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोन-त्रिंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः / तिर्यक्पञ्चेन्द्रियप्रायोग्यायांत्वष्टाधिकानि षट् चत्वारिंशच्छतानि मनुष्यगतिप्रायोग्यायामपि अष्टाधिकानि षट् चत्वारिंशच्छतानि सर्वसंख्यया एकोनविंशति बन्धे चत्वारिंशदधिकानि द्विनवतिशतानि अत्र तीर्थकरसहित देवगति प्रायोग्यायामष्टौ भङ्गाः न प्राप्यन्ते सम्यक्त्वाभावे तीर्थकरनामकर्मणो बन्धाभावात् / पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति प्रत्येकमष्टौ भङ्गाः / तथा तिर्यक्पञ्चेन्द्रिययप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि सर्वसंख्ययाविंशति द्वात्रिंशदुत्तराणि षट् चत्वारिंशच्छतानि या चमनुष्यगति प्रायोग्या तीर्थकरनामसहिता त्रिंशत् या च देवगतिप्रायोग्या आहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः। तीर्थकरनाम्नः सम्यक्त्यप्रत्ययत्वा-वादाहारकनामस्तु संयमप्रत्ययत्वात् / उक्तं च "सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारमिति"। त्रयोविंशत्यादिषु च बन्धस्थानेषु यथासंख्यं भंङ्गसंख्यानिरूपणार्थमाह चउ पण वीसा सोलस, नव चत्ताला सया य बाणउइ। बत्तीसुत्तरछाया लसया मिच्छस्स बंधविहि॥६०॥ सुगमा तथा मिथ्यादृष्ट नव उदयस्थानानि तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एतानि सर्वाण्यपि नानाजीवापेक्ष्या यथा प्राक् सप्रपञ्चमुक्तानि तथाऽत्रापि वक्तव्यानि के वलमाहारकसंयतानां वैक्रियसंयतानां के वलिनां च संबन्धीनि न वक्तव्यानि तेषां मिथ्यादृष्टित्वासंभवात् सर्वसंख्यया मिथ्यादृष्टौ उदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि / तथाहि एकविंशत्युदये एकचत्वारिंशत् तत्रैकेन्द्रियाणांपञ्च द्वीन्द्रियाणां नव तिर्यक्पश्चेन्द्रियाणां नव मनुष्याणां नव देवानामष्टौ नारकाणामेकः / तथा चतुर्विशत्युदये एकादश ते च एकेन्द्रियाणामेव अत्र चतुर्विशत्युदयस्याभावात् / पञ्चविंशत्युदये द्वात्रिंशत् तत्रैकेन्द्रियाणां सप्त वैक्रियतिर्यक्पश्चेन्द्रियाणामष्टौ वैक्रियमनुष्याणामष्टौ देवानामष्टौ नारकाणामेकः / षडविंशत्युदये षट्शतानि तत्रैकेन्द्रियाणं त्रयादश विकलेन्द्रियाणां नव तिर्यक्पञ्चेन्द्रियाणां वे शते एकोननवत्यधिके मनुष्याणामपि द्वे शते एकोननवत्यधिके / सप्तविंशत्युदये एकत्रिंशत्। तत्रैकेन्द्रियाणां षट्वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ वैक्रियमनुष्याणामष्टौ देवानामष्टौ नारकाणामेकः / अष्टाविंशत्युदये एकादश शतानि नवनवत्यधिकानि तत्र विकलेन्द्रियाणां षड् तिर्यक्पञ्चेन्द्रियाणा पञ्च शतानि षट्सप्तत्यधिकानि / वैक्रियतिर्यक्पञ्चेन्द्रियाणं षोडश मनुष्याणां पञ्च शतानि षट्सप्तत्यधिकानि / वैक्रियमनुष्याणामष्टौ देवानां षोडश नारकाणामेकः / एकोनत्रिंशदुदये सप्तदश शतान्येकाशीत्यधिकानि / तत्र विकलेन्द्रियाणां द्वादश तिर्य क्पशेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि / वैक्रि यतिर्य क्पोन्द्रियाणां षोडश मनुष्याणां पञ्च शतानि षट्सप्तत्यधिकानि वैक्रियमनुष्याणामष्टौ देवानां षोडशनारकाणामेकः / त्रिशदुदये एकोनत्रिंशच्छतानि चतुर्दशाधिकानि / तत्र विकलेन्द्रियाणामष्टादश तिर्यक्पञ्चेन्द्रियाणां सप्तदश शतानि अष्टाविंशत्यधिकानि / वैक्रियतिर्यक्पश्चेन्द्रियाणामष्टौ मनुष्याणामेकादश शतानि द्विपश्चादशधिकानिदेवानामष्टौ / एकत्रिंशदुदये एकादश शतानि चतुःषष्ट्यधिकानि तत्र विकलेन्द्रियाणां द्वादश तिर्यक्पञ्चेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि सर्वसंख्यया सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि। मिथ्यादृष्टः षट् सत्तास्थानानि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिः / तत्र द्विनवतिः चतुर्गतिकानामपि मिथ्यादृष्टीनामवसेया। यदा पुनर्नरकेषु बद्धायुष्को वेदकसम्यग्दृष्टिः सन् तीर्थकरनामसहितं परिणामपरावर्त्तनेन मिथ्यात्वं गतो नरकेषु समुत्पद्यते तदातस्यैकोननवतिरन्तमुहूर्त कालं यावल्लभ्यते उत्पत्तेरुद्धमन्तर्मुहूर्त्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते / अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टिनाम् / षडशीतिरशीतिश्चैकेन्द्रियेषुयथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोदलिते सति लभ्यते अशीतिश्चैकेन्द्रियेषु त्रिनवतेस्तीर्थकरनाम्न्याहारकचतुष्के वैक्रियषट्के नरकद्विके चोदलितेसति लभ्यते ततः एकेन्द्रियभवादुद्वृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा मध्ये समुत्पन्नानां सर्वपर्याप्तिभावादूर्द्धमप्यन्तमुहूर्त कालं यावल्लभ्यते परतोऽवश्य वैक्रियशरीरादिबन्धसंभवात् / अष्टसप्ततिस्तेजोवायूनां मनुष्यगतिमनुष्यानुपूर्योरुदलितयोः प्राप्यते तेजोवायुभवादुद्वृत्त्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु वा मध्ये समुत्पन्नानामन्तर्मुहूर्त कालं यावत् परतोऽवश्यमिति मनुष्यगतिमनुष्यानुपूयोर्बन्धसंभवात् / तदेवं सामान्येन मिथ्यादृष्टबन्धोदयसत्तास्थानान्युक्तानि। संप्रति संवेध उच्यते। तत्र मिथ्यादृष्टस्त्रयोविंशतिं बध्नतः प्रागुक्तानिनवाप्युदयस्थानानि सप्रभेदानि संभवन्ति के वलमेक विंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशतत्रिंशद्रूपेषु षट्सु उदयस्थानेषु देवनैरयिकानधिकृत्य ये भङ्गाः प्राप्यन्तेतेनसंभवन्ति। त्रयोविंशतिर्हि अपर्याप्तकैकेन्द्रियप्रायोग्या नचदेवा अपयप्तकैकेन्द्रिय प्रायोग्यं बध्नन्ति तेषां तत्रोत्पादाभावात् / नापि नैरयिकास्तेषां सामान्यतोऽप्येकेन्द्रियप्रायोग्यबन्धासंभवात् / ततोऽत्र देवनैरयिकसत्कोदयस्थानभङ्गा न प्राप्यन्ते सत्तास्थानानि च पञ्च तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च / तत्रैकविंशतिचतुर्विंशति पञ्चविंशतिषडविंशत्युदयेषु पञ्चापि सत्तास्थानानि नवरं पञ्चविंशत्युदये तेजोवायुकायिकमधिकृ त्याष्टसप्ततिः प्राप्यते / षडविंशत्युदये तेजोवायुकायिकास्तेजोवायुभवादुदृत्य विकलेन्द्रियतिर्यक्पश्चेन्द्रियेषु मध्ये समुत्पन्नान् विधाकृत्य सप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्त्रिंशदेकत्रिंशदूपेषु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy