SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ कम्म 321 - अभिधानराजेन्द्रः - भाग 3 कम्म अष्टोदयास्त्रयोष्टऽभिः जाता चतुर्विंशतिः सप्तोदयश्चैकः सप्तभिः जाता: सप्तसर्वसङ्ख्यया अष्टटषष्टिः एवं द्वात्रिंशदादीनामन्येषामपि उदयपदानां | भावना कर्त्तव्या।सर्व संख्यया त्रीणि शतानि द्विपञ्चाशदधिकानिएतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातान्यष्टचत्वारिंशदधिकानि चतुरशीतिशतानि द्विकोदया द्वादश द्वाभ्यागुण्यन्ते जाता चतुर्विंशतिः एकोदयपदानि पञ्च सर्वसंख्यया एकोनत्रिंशत् सा च पूर्वराशौ प्रक्षिप्यते ततो जातानि सप्तसप्तत्यधिकानि चतुरशीतिशतानि / एतानि वाग्योगचतुष्टमनोमयोगचतुष्टयौदारिककाययोगसहितानि प्राप्यन्ते इति नवभिर्गुण्यन्तेततोजातानिषट् सप्ततिसहस्राणि द्वेशते त्रिनवत्यधिके।। ततो वैक्रियकाययोगे मिथ्यादृष्टरष्टषष्टिसंख्यानि उदयपदानि एतानि च प्राग्वत् भावनीयानि / वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं षट् त्रिंशत् षट् त्रिंशत् उदयपदानि / वैक्रियमिश्रादौ हि उदयपदान्यनन्तानुबन्ध्यु-दयसहितान्येव प्राप्यन्ते न शेषाणि कारणं प्रागेवोक्तं ततः षट्त्रिंशद्भवन्ति / तथा ह्योकोऽष्टोदयो द्वौ नवोदयौ एको दशोदयोऽनन्नतानुबन्धिसहितः प्राप्यते ततोऽष्टोदय एकोऽष्टभिर्जाता अष्टनवोदयौ द्वौ नवभिः जाता अष्टादश दशोदय एको दशभिर्गुण्यते जाता दश एवं सर्वसंख्यया षट्त्रिंशत्। एवमन्यत्रापि भावनास्वधिया कर्तव्या। सासादनस्य वैक्रियकाययौगौदारिकमिश्रे कार्मणकाययोगे च द्वात्रिंशत् द्वात्रिंशत् सम्यग्मिथ्यादृष्ट क्रियकाययोगेद्वात्रिंशत् अविरतसम्यग्दृष्टवैक्रियकाययोगे षष्टिः देशविरतस्य वैक्रियमिश्रवैक्रियकाययोगेच प्रत्येक द्विपञ्चाशत् प्रमत्तसंयतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येक चतुश्चत्वारिंशत् / अप्रमत्तसंयतस्य वैक्रियकाययोगे चतुश्चत्वारिंशत् सर्वसंख्यया षट्शतानि। एतानि चतुर्विंशत्या गुण्यन्ते जातानि चतुर्दश / सहस्राणि चत्वारिंशच्छतानि एतानि च पूर्वराशौ प्रक्षिप्यन्ते / तथा सासादनस्य वैक्रियमिश्रे द्वात्रिंशदुदयपदानि एषु नपुंसकवेदोन लभ्यते युक्तिरत्र प्रागेवोक्ता। अविरत सम्यग्दृष्टवै क्रियमिश्रेकार्मणकाययोगे प्रत्येक षष्टिः अत्र स्त्रीवेदो न लभ्यते कारणं प्रागेवोक्तम् / प्रमत्तसंयतस्याहारककाययोगेचतुश्चत्वारिंशत् अत्राति स्त्रीवेदोन लभ्यते युक्तिरत्र प्रागेवोक्ता सर्वसंख्यया द्वे शते चतुरशीत्यधिके एतानि चोक्तप्रकारेण द्विवेदसहितान्येव प्राप्यन्ते इति द्विवेदसंभवः। षोडशभिर्गुण्यन्तेजातानि चतुश्चत्वारिंशदधिकानि पञ्चचत्वारिंशच्छतानि तानि पूर्वराशी प्रक्षिप्यन्ते अविरत सम्यग्दृष्टोरीदारिकमिश्रकाययोगे षष्टिरुदयपदानि एतानि पुरुषवेद एव प्राप्यन्तेन स्त्रीवेदनपुंसकवेदयोः कारणमत्र प्रागेवोक्तं तत एतानि अष्टभिर्गुण्यन्ते जातानि चत्वारि शतानि अशीत्यधिकानि एतान्यपि पूर्वराशौ प्रक्षिप्यन्तेततो जातः पूर्वराशिः पञ्चनवतिसहस्राणि सप्त शतानि सप्तदशाधिकानि। एतावन्ति योगगुणितानि (सत्तरसा सत्त सया पणनउइसहस्सपयसंखा) संप्रत्युपयोगगुणिता उदयभङ्गा भाव्यन्ते / तत्र मिथ्यादृष्टौ सासादने च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्ग ज्ञानचक्षुरचक्षुदर्शनरूपाः पञ्च पञ्च उपयोगाः सम्यग्मिथ्या दृष्ट्यविरतसम्यग्दृष्टिदेशविरतानां मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधि दर्शनरूपाः प्रत्येकं षट् षट् प्रमत्तादीनां सूक्ष्मसंपरायान्तानां त एव षट् मनःपर्यवज्ञानसहिताः सप्त सप्त मिथ्यादृष्ट्यादिषु चतुर्विशतिगता उदयविकल्पाः "अट्ठगचउचउचउरट्ठगा य" इत्यादिना ये प्रागुक्तास्ते यथायोगमुपयोगैर्गुण्यन्ते तद्यथा मिथ्यादृष्टरष्टौ सासादने च चत्वारः मिलिता द्वादष / एते पञ्चभिरुपयोगैर्गुण्यन्ते जाता षष्टिः। तत्र मिश्रस्य चत्वार उदयस्थानविकल्पा अविरतसम्यग्दृष्टरष्टौ देशविरतस्याप्यष्टौ सर्वसंख्यया विंशतिः / सा च षभिरुपयोगैर्गुण्यते जातं विंशतिशतम्। तथा प्रमत्तस्याष्टौ उदयस्थानविकल्पाः अप्रमत्तस्याप्यष्टौ अपूर्वकरणस्य चत्वारः सर्वे मिलिता विंशतिः / सा सप्तभिरुपयोगैर्गुण्यते जातं चत्वारिंशच्छतं सर्वसंख्यया त्रीणि शतानि विंशत्यधिकानिये त्वाचा मिश्रेऽपि मत्यज्ञानश्रुताज्ञानविभङ्ग ज्ञानचक्षुरचक्षुर्दशनरूपान् पञ्चैवोपयोगानिच्छन्ति तेषां मतेन त्रीणि शतानि षोडशोत्तराणि एतानि चतुर्विशतिगतानीति चतुर्विशत्या गुण्यन्ते ततो जातानि अशीत्यधिकानि षट् सप्तशितानि। मतान्तरेण पञ्चसप्ततिशजातानिचतुरशीत्यधिकानि। ततो द्विकोदयभङ्गा द्वादश एकोदयभङ्गाः पञ्च सर्वे मिलिताः सप्तदश ते सप्तभिर्गुण्यन्ते जातमेकोनविंशाधिकं शतं तत् पूर्वराशौ प्रक्षिप्यते ततः पूर्वराशिर्जातो नवनवत्यधिकानि सप्तसप्ततिशतानि / मतान्तरेण सप्त व्युत्तराणि / उक्तं च "उदयाणुवओगेसु सगसरिसया तिउत्तरा हॉति'' एतावन्त उपयोगगुणिता उदयभङ्गाः। संप्रति पदवृन्दानि उपयोगगुणितानि भाव्यन्ते तत्रोदयस्थनपदानि चतुर्विशतिगतानि "अहट्ठी वत्तीसमित्यादीनि' यानि प्रागुक्तानि तानि यथायोगमुपयागैर्गुण्यन्ते तत्र मिथ्यादृष्टरष्टषष्टिरुदयस्थानपदानि सासादनस्य द्वात्रिंशत् मिलितानि शतं तत्पञ्चभिरुपयोगैर्गुण्यते जातानि पञ्च शतानि सम्यग्मिथ्यादृष्टद्वात्रिंशत् अविरत सम्यग्दृष्टः षष्टिः देशविरतस्य द्विपञ्चाशत् सर्वसंख्यया चतुश्चत्वारिंशदधिकं शतम् एतच्च षभिरुपयोगैगुण्यते जातानि चतुःषष्ट्यधिकानि अष्टा शतानि तथा प्रमत्तस्य चतुश्चत्वारिंशत् अप्रमत्तस्यापि चतुश्चत्वारिंशत् अपूर्वकरणस्य विंशतिः सर्वसंख्यया जातमष्टाधिकं शतमेतत्सप्तभिरुपयोगैर्गुण्यते जातानि सप्त शतानि षट् पञ्चाशदधिकानि सर्वसंख्यया विंशत्यधिकान्येकविंशतिशतानि। अन्ये तु मिथदृष्टाविव मिश्रेऽपि पञ्चोपयोगानिच्छन्ति तन्मतेन सर्वसंख्यया अष्टाशीत्यधिकानि विंशतिशतानि ततश्चतुर्विशत्या गुणयन्ते जातानि पञ्चाशत्सहस्राणि अष्टौ शतानि अशीत्यधिकानि / मतान्तरेण पञ्चाशत्सहस्राणि शताधिकानिद्वादशोत्तरशतानि। ततो द्विकोदयपदानि चतुर्विंशतिरेकोदयपदानि पञ्च सर्वे मिलिता एकोनत्रिंशत् सा सप्तभिरुपयागैर्गुण्यते जाते द्वे शते त्र्युत्तरे ते पूर्वराशौ प्रक्षिप्येते ततो जातः पूर्वराशिः एकपञ्चाशत्सहस्राणि त्र्यशीत्यधिकानिमतान्तरेण पुनः पञ्चाशत्सहस्वाणि त्रीणि शतानि पञ्चादशोत्तराणि / उक्तं च “पन्नास सहस्सा तित्तिसया चेव पन्नारा" एतावन्त्युपयोगगुणितानि पदवृन्दानि। संप्रति लेश्यागुणिता उदयभङ्गाः भाव्यन्ते। तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्दृष्टिपर्यन्तेषु प्रत्येकं षट् लेश्याः देशविरतिप्रमत्तेषु तेजःपद्मशुक्लरूपास्तिस्रः कृष्णलेश्यायास्तु देशविरत्यादिप्रतिपत्तरेभावात् / अपूर्वकरणादौ एका शुक्लेश्या मिथ्यादृष्ट्यादिषु अपूर्वकरणपर्यन्तेषु च ये चतुर्विंशतिगता उदयस्थानविकल्पा अष्टचतुरादिसंख्यास्ते यथायोग लेश्याभिर्गुण्यन्तेतद्यथा मिथ्यादृष्टरष्टावुदयस्थान विकल्पाः सासादनस्य चत्वारः सम्यग्मिथ्यादृष्टेश्चत्वारः अविरत सम्यग्दृष्टरेष्टौ मिलिता जाता चतुर्विशतिः सा च षडभिर्लेस्याष्टौ प्रमत्त स्याप्यष्टौ अप्रमत्ततस्यापि चाष्टौ सर्वसंख्यया चतुर्विंशतिः त्रिभिर्लेश्याभिर्गुण्यते जाता द्विसप्ततिः / अपूर्वकरणे चतस्रः अत्रैकैव लेश्या एकेन च गुणितंतदेव भवतीति चत्वारः /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy