________________ उववाय 1003 - अभिधानराजेन्द्रः - भाग 2 उववाय ते पूर्व सम्प्राप्य पुद्रलान् गृहीत्वा पश्चात् उत्पद्येत् प्राक्तनशरीरस्थ-- जीवप्रदेशसंहरणतः समस्तजीवप्रदेशै-रुत्पत्तिक्षेत्रगतो भवेदिति भावः (देसेण वा समोहणइ सव्वेण वासमोहणा इत्ति) यदा मारणान्तिकसमुद्धातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति, तत्र च जीवदेशस्य पूर्वदेह एव स्थितत्वात्, देशस्य वोत्पत्तिदेशे प्राप्तत्वात्, देशेन समवहन्तीत्युच्यते यदा तुमारणान्तिकसमुद्धातात्प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशप्राप्तौ सर्वेण समवहत इत्युच्यते तत्र च देशेन समवहन्यमान ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य पुद्गलान् गृहीत्वा पश्चादुत्पद्यते, सर्वात्मनोत्पादक्षेत्रे आगच्छति (सव्वेण समोहणमाणेत्ति) गेन्दुकगत्या गच्छन्नित्यर्थः पूर्वमुत्पद्य सर्वात्मनोत्पाददेशमासाद्य पश्चात् (संपाउणेज्जत्ति) पुद्गलग्रहणं कुर्यादिति ! सप्तदशशतेषष्ठः।१७।६। शेषास्तु (7186 / 10 / 11 / सुगमा एव) भ०१७ श०। (21) नैरयिकादयो नैरयिकादिषूपपद्यन्ते।। नेरझ्याणं भंते नेरइएसु उववजइ अनेरइए नेरइएसु उववजह? गोयमा! नेरइए नेरइएसु उववजइनो अनेरइए नेरइएसु उववज्जइ एवं वेमाणियाणं // अस्य चायमभिसम्बन्धो द्वितीयोद्देशके नारकादीनां लेश्यापरि-- संख्यानमल्पबहुत्वमहर्द्धिकत्वं चोक्तमिह तु तेषामेव नारकादिजीवानां तास्ताः लेश्याः किमुपपातक्षेत्रोपपन्नानामेव भवन्ति उत विग्रहेऽपीत्यस्यार्थस्य प्रतिपादानार्थं प्राक् तावन्नयान्तरमाश्रित्य नारकरदिव्यप्रदेशं पृच्छति, “नेरहयाणं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजई", इति / इदं च प्रश्नसूत्रं सुगम भगवानाह गौतम ! नैरयिको नैरयिकेषूत्पद्यते नैरयिकोऽनैरयिकेषु कथमिति चेदुच्यते, इह यस्मान्नारकादिभवोपग्राहकमायुरेव नशेषं तथा हि नारकायुष्युदयमागते नारक भवो भवति मनुष्यायुषि मानुषभव इत्यादि ततो नारकाद्यायुर्वेदनप्रथमसमय एवं नारकादिव्यपदेशं लभते एतच ऋजुसूत्रनयदर्शनं तथा च नयविद्भिः ऋजुसूत्रनयनि -रूपणं कुर्वद्भिरिदमुक्तम्। “पलालं न दहत्यग्निर्भिद्यतेनघटः क्वचित्। नास्तित्वे निष्क्रमोस्तीह, न च शून्य प्रविश्यते || नारकव्यतिरिक्तश्च, नरकेनोपपद्यते / नारकान्नारकच्चास्य, न कश्चिद्विप्रमुच्यते" ||2|| इत्यादि (एवं जाव वेमाणिए इति) एवं नैरयिकोक्तप्रकारेण तावद्वक्तव्यं यावद्वैमानिको वैमानिकविषय सूत्रं तच्च सुगमत्वात् स्वयं भावनीयम्।। अधुना उद्वर्तनविषयं नैरायिकेषु सूत्रमाह। नेरइयाणं भंते ! नेरइए हिंतो उववट्टइ अनेरइए नेरइएहिंतो उववट्टइ ? गोयमा ! नेरइए नेरइएहिंतो उववट्टइ न अनेरइएनेरइएहिंतो उववट्टइ एवं जाव वेमाणिए नवरं जोइसियवेमाणिएसु च यति अभिलावो कायव्वो।। एतदपि ऋजुसूत्रनयनदर्शनेन वेदितव्यं तथा हि परभवायुष्युदय-मागते तत उद्वर्तते यद्भवायुश्च उदयमागतं तेन भबेन व्यपदेशो यथा नारकायुष्युद यमागते नरकभवेन नारक इति ततो नैरयिकेभ्यो नैरयिक एवोद्वर्तते तेन नैरयिक इति एवं चतुर्विशतिदण्डक क्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिकविषये च "चयई” इत्यादि अभिलापः कर्तव्यस्तभ्यः उद्वर्तनस्य च्यवनमिति प्रसिद्धेः तथा चाह “एवं जाव वेमाणिए नवर"मित्यादि। अथ कृष्णलेश्याविषयमुत्पत्तौ सूत्रमाह। से नूणं मंते ! कण्हलेसे नेरइए कण्हलेसेसुनेरइएसु उववज्जइ कण्हलेस्सेसु उववट्टइ जल्लेसे उववज्जइ तल्लेसे उववट्टइ ? हंता गोयमा ! कण्हलेसेसु नेरइएसु उववज्जइ कण्हलेसेसु उववट्टइ जल्लेसे उववज्जइ तल्लेसे उववट्टइ एवं नीललेसावि एवं काउलेसावि एवं असुरकुमाराणविजाव थणियकुमारा णवरं तेउलेस्सा अमहिया।। "से नूणं भंते" इत्यादिसे शब्दोऽशब्दार्थः सचेह प्रश्ने नूनं निश्चितमेतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरयिकेषु मध्ये उत्पद्यते। तेभ्यश्च कृष्णलेश्येभ्यो नैरयिकेभ्य उद्वर्तमानः कृष्णलेश्य एवोद्वर्तते एतदेव निश्चयदाढ्र्योत्पादनार्थ प्रकारान्तरेणाह / यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्तते न लेश्यान्तरगत इति भगवानाह "हंता गोयमे" त्यादि हंते त्यनुमतौ अनुमतमेतत् मम / गौतम! कण्हलेसेसु नेरइएसु इत्यादि। अथ कथं कृष्णलेश्यः सन् कृष्णले श्येषु नै रयिके षूत्पद्यते न लेश्यान्तरोपेतः उच्यते इह तिर्यक्रपञ्चेन्द्रियो मनुष्योऽबद्धायुष्कतया नरकेषुत्पत्तुकामो यथाक्रम तिर्यगायुषि मनुष्यायुषि चं साकल्येनाक्षीणेऽन्तर्मुहुर्तशेषे यल्लेश्येषु नरकेषूत्पत्स्यते तद्गतलेश्या परिणमति ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुः प्रतिसंवेदयते तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेषूत्पद्यतेनलेश्यान्तरयुक्तः / अथ कथं कृष्णलेश्य एवोद्वर्तते? उच्यते देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद्भवति एतच्च प्रागेव प्रपञ्चत उपपादितमेवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यमेवमसुरकुमारादीनामपि स्तनितकुमारावसानानां वक्तव्यं नवरं तेजोलेश्यासूत्र तत्राभ्यधिकमभिधेयं तेजोलेश्याया अपि तेषां भावात्। अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह।। से नूणं भंते ! कण्हलेसे पुढवीकाइए कण्हलेसेसु पुढवीकाइएसु उववज्जइ कण्हलेसे उववट्टइ जल्लेसे उववज्जइ तल्लेसे उववट्टइ? हंता गोयमा ! कण्हलेसे पुढविकाइए कण्हलेसेसु पुढविकाइएसु उववजइ, सिय कण्हलेसे उववट्टइ सिय नीललेसे उववट्टइ सिय काउलेसे उववट्टइ सिय जल्लेसे उववज्जइ सिय तल्लेसेसु उववट्टइ। एवं नीललेसाकाउलेसासुवि। से नूणं भंते ! तेउलेसे पुढविकाइए तेउलेस्सेसु पुढविकाइएसु उववजइपुच्छा हंता गोयमा ! तेउल्लेस्से पुढविकाइएतेउलेसेसु पुढविकाइएसु उववजइ, सिय कण्लेस्से उववट्टइसिय नीललेसे उववट्टइ सिय काउलेसे उववट्टइतेउलेसे उववजइणो चेवेणं तेउलेसे उववट्टइ। एवं आउकाइयवणस्सइ-काइयावि। तेउवाऊ एवं चेव नवरं एएसिं तेउलेस्सा नत्थि / वितिचउरिंदिया एवं चेव तिसुवि लेसासु / पंचिंदियतिरिक्खजोणिया मणूसा जहा पुढ विकाइया आदिल्लियासुतिसुलेसासु भणिया तहाछसुलेसासु भाणियव्वा नवरं छप्पिलेस्सा उच्चारेयव्वाओ। वाणमंतरा जहा असुरकुमारा से नूणभंते ! तेउलेस्सेजोइसिएतेउलेसेसुजोइसिएसु उववज्ज