SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३७४ सूर्यपर्यायोदयार्था 'प्राची पूर्वा च मङ्गला । , दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥४६॥ सूर्यार्थादस्तपर्यायाऽथोदीची त्वपराजिता । इन्द्राग्नियमरक्षोम्बुवायुश्रीदपिनाकिनाम् ॥५०॥ पर्यायतोऽपि तस्येदमीबन्ताः स्युः क्रमादिमाः। ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥५१॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुः कपिला पिङ्गलानुपमा क्रमात् ॥५२॥ ताम्रपर्णी शुभ्रदन्ती 'वामना चाअनावती। रविः शुक्रो मही सूनुः स्वर्भानुर्भानुजो विधुः ॥५३॥ बुधो बृहस्पतिश्चेति क्रमादिकपतयो ग्रहाः। 'क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५४॥ विदिशाऽपदिशा काष्ठा चोपदिक् स्यादतः पुनः। अभ्यन्तरं त्वन्तरालं द्वयोर्मध्यगतं च यत् ॥५५॥ दिगैक्ये चक्र वालं तु चक्रवाडं च मण्डलम् । यथापरेतरा पूर्वा तथा पूर्वेतरापरा ॥५६॥ यथोत्तरेतरापाची तथाऽपाचीतरोत्तरा । अपाग्भवमवाचीनमुदीचीन मुदग्भवम् ॥५७॥ १ वाचीCK २ चाप्यपाचीB ३ रक्षो व (वः वरुणः इत्यर्थः स्यात्) ४ चाङ्गनेति पाठोऽन्यत्र ५ क्लीवेत्यर्धद्वयं केवलंB पुस्तके दृश्यते, दिकस्यादतः पुन इतिर पुस्तके पूर्वश्लोके एव दृश्यते ६ वातंB ७ मुदाभवम् B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy