________________
३७४ केशवकृतः कल्पद्रुकोशः वृषपर्वा नारदश्च पर्वतश्च' नरश्च ते। समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥४०॥ श्रथ किंपुरुषास्ते स्युः किंचित्पुरुषलक्षणाः । छागाश्चैडक पर्यायमुखपर्यायशब्दिताः ॥४१॥ सूच्यास्या वानरास्याश्च पिशाचा नामतो गणाः । दुःपूरणा विषादाश्च ज्वलनाः कुम्भमात्रकाः॥४२॥ अङ्गारकाः प्रतुण्डाश्च उपवीरा' उलूखलाः । ५अकर्णाश्चक्रखण्डाश्च पांसवः पात्रपाणयः ॥४३॥ स्कन्दनाश्च वितुण्डाश्च विपुलाश्चाथ गुह्यकाः । महापद्मश्च पद्मश्च शङ्खो मकरकच्छपी ॥४४॥ मुकुन्दकुन्दनीलाश्च खर्वः सिद्धास्त्वतः पुरः। सर्वानुभूतिर्गणिमान्मणिभद्रश्च नन्दनः ॥४५॥ सुसिद्धः सुमनाः शङ्खः कण्डूतिर्वसुमानपि । पिङ्गाक्षश्चतुरश्चाथ भूतानां तु गणाः पुनः ॥४६॥ 'विपरीतकरा दान्ताः सर्वज्ञाः सर्वदर्शिनः । नानाप्रकारवदना नानाबाहुशिरोधराः ॥४७॥ चतुष्पथपथाट्टालशून्यालयकृताश्रयाः । ककुभा तु ककुपकाष्ठा दिग्दिशा हरिता हरित् ॥४८॥ , पर्वतः किंनराश्च ते २ श्वेडकCK ३ दुर्विदाश्चB ४ उपवीशB ५ कर्णाCK ६ विपरीते।।
पमान