SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३५६ केशवकृतः कल्पद्रुकोशः पाठीनप्रमुखा मत्स्या निवसन्ति सकच्छपाः । पाषाणप्रान्तविवरे नाभिदनोदके तथा ॥११०॥ घाघरस्तुवरो वामी निवसन्ति निजेच्छया । नागस्तन्तुः स बनाति प्राणिनं जलमध्यगम् ॥१११॥ मत्स्याः स्त्रीजातयः सर्वे गर्जद्गर्भा हि ते स्मृताः । सर्वेषामुदरेण्डानां संघातो दृश्यते यतः ॥११२॥ शिशुकस्तु वसाढ्यः स्याजलात्सूकरमर्कटौ । शिशुमारोप्यथ पुनर्जलौका तु जलोरगी ॥११३॥ जलोका जालिका वेणी जलालोका जलाटनी । जलौकसः स्त्रियां भूम्नि सैवोक्ता जलजन्तुका ॥११४॥ जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् । मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥११५॥ शिशुमारो महाङ्गः स्यात्स्वल्पाङ्गश्चुलकी च सा। नक्रस्त्वम्बुकिराटः स्यात्स च वाडवहारकः ॥११६॥ अम्बुनः कण्टकभटौ वज्राकारशरीर्यपि । एतस्य भेदे कुम्भीरो मकरस्तुरे झषाशना ॥११७॥ हृदग्रहोसिदंष्ट्रः स्यान्मरोलिर्जलरूपकः । जलाप्लवा खुनकुलविडालशुनका अपि ॥११८॥ १ पिB २ भरोB ३५चB ४ प्लवाB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy