________________
___ अहम् । श्रीविजयधर्मसूरिभ्यो नमः । श्रीहेमचन्द्राचार्यविरचितःअभिधानचिन्तामणिः ।
धर्मतीर्थकृतां वाचं नत्वा तत्त्वाभिधायिनीम् । खोपज्ञनाममालाया विवृतिं विदधाम्यहम् ॥ १॥ श्रेयोऽर्थमयमारम्भः किं तत्रात्मविकत्थनैः ।। परात्मनिन्दास्तोत्रे हि नाद्रियन्ते मनीषिणः ॥ २॥ प्रामाण्यं वासुकेप्डेयुत्पत्तिर्धनपालतः ।
प्रपञ्चश्च वाचस्पतिप्रभृतेरिह लक्ष्यताम् ॥ ३ ॥ तत्रायमादिश्लोकः
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।
रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १॥ प्रणिपत्यार्हतइति मङ्गलार्थम् । मङ्गलं चाविघ्नेन शास्त्रस्य समाप्त्यर्थम् । सिद्ध प्रतिष्ठा प्राप्तं साहं शब्दानुशासनं यस्येति कर्तृविशेषणम् । अङ्गानि लिङ्गधातुपारायणादीनि । एतावता च शब्दानुशासनेन सहास्या एककर्तृकत्वमाह । एककर्तृकत्वख्यापनं चान्योन्यसंवादात्प्रतीतिदायॊपदर्शनार्थम्। शब्दानुशासनस्य च कीर्तनं तदधीनः सर्वविद्यानां प्रकर्ष इति प्रदर्शनार्थम् । यदाह
'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । - शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते' ॥१॥
रूढादीनां नामां शब्दानां मालाममिधानचिन्तामणिनाम्नी तनोमि । अहमिति कर्तृनिर्देशः ॥ १॥ तत्र रूढान् शब्दान् व्याचष्टे
व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः । शब्दा इत्यनुवाद्यनिर्देशः । रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् । नपत्र प्रकृतिप्रत्ययविभागेन