SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कथाकोश: [ ५८ ] ८१ गोधनं गृहीत्वा अटव्यां गतस्तत्र सुप्तश्च नन्देन गत्वा मारितः । ततो नागदत्तानन्दौ कामासक्तौ स्थितौ । श्रीकुमारो नागदत्ताया उपरि नित्यं जूरयति । ततो रुष्ट्या नागदत्तया भणितो नन्दः – श्रीकुमारमपि मारय । श्रीषेणयापि तच्च ज्ञातम् | एकदा नन्दो गृहे शरीरकारणव्याजेन स्थितः । श्रीकुमारः पश्चिमरात्रौ गोधनं गृहीत्वा गच्छन् भगिन्या भणितः यथा तव पिता नन्देन मारितः तथा नागदत्तावचनेनाद्य त्वमपि मायसे लग्नो यत्नं कुर्याः । ततो ऽटव्यां काष्ठमेकं निजवस्त्रेण प्रच्छाद्य श्रीकुमारस्तिरोहितः स्थितः । नन्देनागत्य खङ्गेनाहतो काष्ठे । पृष्टे सेल्लेनाहत्य नन्दो मारितः । प्रभाते दोहनार्थं गोधनं गृहीत्वा श्रीकुमारो गृहमागतो जनन्या पृष्टः - मया नन्दस्त्वां गवेषयितुं प्रेषितः । स क्व तिष्ठति । तेनोक्तम् - मे सेल्लो ऽयं जानाति । सेल्लं रक्तलिप्तमालोक्य रुष्ट्या तया स उपविष्टो मुसले - १२ नाहत्य मारितः । श्रीषेणया च सा मुसलेनाहत्य मारिता । सर्वे नरकं गताः ॥ - [ ५८ ] दग्धा द्वीपायनेत्यादि । [ बारवदी य असेसा दड्ढा दीवायणेण रोसेण । बद्धं च तेण पावं दुग्गदिभयबंधणं घोरं ॥ १३७४।। ] १८ अस्य कथा — द्वारावतीनगर्यां राजानौ नवमबलभद्रवासुदेवौ । एक दोर्जयन्तपर्वते ऽरिष्टनेमिं समवसरणस्थं वन्दित्वा धर्ममाकर्ण्य बलभद्रेण पृष्टम् – भगवन्, कियत्कालमीदृशी विभूतिर्वासुदेवस्य भविष्यति । भगवतोक्तम् - द्वादश वर्षाणि । ततो मद्याद् यादवानां विनाशो भविष्यति । तव मातुलद्वीपायनकुमारकोपाग्निना द्वारावत्या दाहः । अनया तव क्षुरिकया जरत्कुमारहस्तेन वासुदेवस्य मरणम् । एतदाकर्ण्य गत्वा मद्यमूर्जयन्तगुहायां निक्षिप्तम् । द्वीपायनो I ६ Jain Education International १५ For Private & Personal Use Only २१ २४ www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy