SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) षण्मासरूपमपान्तरालं भवेत्ततस्तदप्यभिधीयते, न चोक्तं, तस्मादेव अयुक्तमेतदिति, तथा चाह भाष्यकार:-"कम्मलयाए समओ भिन्नमहत्तावसेसओ कालो। अन्नेजहन्नमेयं छम्मासुक्कोसमिच्छति ॥१॥ तत्तोऽनंतरसेलेसीवयणओ जं च पाहिहारीणं। पच्चप्पणमेव सुए इहरा गहणंपि होज्जाहि ॥२॥ अव कम्मलघुतानिमित्तं समुद्घातस्य समयः अवसरो भिन्नमुहूर्तावशेषकालः, शेषं सुगम, तदेवमन्तमुहर्तकालं यथायोगं योगत्रयव्यापारभाक् केवली भूत्वा तदनन्तरमत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपत्सुरवश्यं योगनिरोधायोपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्यासम्भवात्, तथाहियोगपरिणामो लेश्या, तदन्वयव्यतिरेकानुविधानात्, ततो यावद्योगस्तावदश्यंभाविनी लेश्येति न लेश्यातीतध्यान सम्भवः, अपिच-यावद्योगस्तावत्कर्मबन्धोऽपि,' जोगा पर्याडपएसं ठिइअणुभागं कसायओ कुणई' इति वचनात्, केवलं स कम्मबन्धः केवलयोगनिमित्तत्वात् समयवयावस्थायी, तथाहि-प्रथमसमये कर्म बध्यते, द्वितीय समये वेद्यते, तृतीये तु समये तत्कर्माकर्मो भवति, तत्र यद्यपि समयद्वयरूपस्थितिकानि कर्माणि त्रियन्ते, पूर्वाणि पूर्वाणि कर्माणि प्रलयमुपगच्छन्ति, तथापि समये समये सन्तत्या कर्मादाने प्रवर्त्तमाने सति न मोक्षः स्याद्, अथ चावश्यं मोक्षं गन्तव्यं तस्मात् कुरुते योगनिरोधमिति, उक्त च- स ततो योग.नरोधं करोति लेश्यानिरोधमभिकांक्षन । समयस्थिति च बन्धं योगनिमित्तं स निरुरुत्सुः ॥१॥ समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नाकर्मणो हि वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितेबन्धः ॥३॥" अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयमतिरिच्य वेदितव्या भाष्यमप्येनं पूर्वोक्तं सकलमपि प्रमेयं पुष्णाति, तथा च तद्वतो ग्रन्थःविणिवित्तसमुग्घाओ तिण्णिवि जोगे जिणो पजिज्जा। सच्चमसच्चामोसंच सो मणं तह वईजोगं ॥१॥ ओरालियकायजोगं गमणाई पाडिहारियाणं वा। पच्चप्पणं करेज्जा जोगनिरोहं तओ कुणइ ॥२॥ किन्न सजोगी सिज्झइ ? स बंधहेउत्ति जं सजोगोऽयं । न समेइ परमसुक्कं स निज्जराकारणं परमं ॥३॥" । . से णं भंते ! तहा सजोगी सिज्झई' इत्यादि, सुगम, योगनिरोधं कुर्वन प्रथमं मनोयोग निरुणद्धि, तच्च पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मात्रश्च तद्व्यापारः तस्मादसंख्ययगुणहीनं मनोयोग प्रतिसमयं निरन्धानोऽसंख्येयैः समयैः साकल्येन निरुणद्धि, उक्तं च-"पज्जत्तमेत्तसण्णिस्स जत्तियाई जहण्णजोगिस्स। होति मणोदव्वाइं तब्वावारो य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy