SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत आह–मुच्यतेऽशेषकशिरिति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह–परिनिर्वाति–सामस्त्येन शीतीभवति, समस्तमेतदेकेन पर्यायेण स्पष्टयति-सर्वदुःखानामन्तं करोतीति, भगवानाह-गौतम ! नायमर्थः समर्थोनायमर्थः सङ्गतो यः समुद्घातं गतः सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वक्ष्यमाणयुक्त्या सिद्धयभावादिति भावः, ततः कि करोतीत्यत आह-से ण' मित्यादि, सः—अधिकृतसमुद्घातगतः णमिति वाक्यालङ्कारे तत: समुद्घातात् प्रतिनिधत्तंते, प्रतिनिवर्त्य च तत:-प्रतिनिवर्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति.-व्यापारयति, यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनोयेष्वचिन्त्यमाहत्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वप्यन्तर्मुहूतभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तहि व्याकरणादिना मनः पुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा, मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वाक्पुद्गलात् गृहीत्वा वाग्योगं तमपि सत्यमसत्यामृषा वा, न शेषान् वाग्मनसोर्योगान्, क्षीणरागादित्वात्, आगमनादौ चौदारिकादिकाययोगं, तथाहि-भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने आगच्छेत्, यदिवा क्वापि गच्छेत्, अथवा तिष्ठेत्-उद्धवस्थानेन वाऽवतिष्ठेत् निषोदेद्वा तथाविधश्रमापगमाय त्वग्वर्त्तनं वा कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घन प्रलङ्घनं वा कुर्यात्, तत्र सहजात् पादविक्षेपान्मनागधिकतरः पादविक्षेप: उल्लङ्घन स एवातिविकटः प्रलङ्घनं, यदिवा प्रातिहारिकं पीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्, यस्मादानीतं तस्मै समर्पयेत्, इह भगवता आयश्यामेन प्रातिहारिकपोठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीयते नियमादन्तमुहूर्तावशेषायुष्क एवावर्जीकरणादिकमारभते, नप्रभूतावशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयते, एतेन यदाहुरेके-'जघन्यतोऽन्तमुहूर्ते शेषे समुद्घातमारभते उत्कर्षतः षट्सु मासेणु शेषेष्वि' ति तदपास्तं द्रष्टव्यं, षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तन्निमित्तं पीठफलकादीनामादानमप्युपपद्यत, न च तत्सूत्रसम्मतमिति तत्प्ररूपणमुत्सूत्रमवसेयं, एतच्चोत्सूत्रंआवश्यकेऽपि समुद्घातानन्तरमव्यवधानेन शैलेश्यभिधानात्, ( यतः ) तत्सूत्रं 'दंडकवाडे मंथंतरे य साहारणा सरीरत्थे। भासाजोगनिरोहे सेलेसी सिझणा चेव ॥१॥ यदि पुनरुत्कर्षतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy