SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Introduction I केनोक्तमिति पृच्छेच्चत्प्रातर्जातचमत्कृतिः । अत्याग्रहे तदा नाम मम तस्मै निवेदय ॥ ५३९ ॥ __ ओमित्यभ्युपगम्यतां वाचं सचिवपुङ्गवः । शंसति स्म विशांपत्ये सोऽपि चक्रे तथैव तत् ॥ ५४० ॥ निशि विद्युन्निपातेन दग्धे तस्मिन्नवे गृहे। मृतायां नव्यपन्त्यां च चमच्चक्रे महीपतिः ॥ ५४१ ।। प्रभाते पृष्टवान् भूभृन्मन्त्रिन् केनेदमद्भुतम् । आचख्ये ज्ञानमाचक्ष्व जीवातुमिव तं मम ॥ ५४२ ॥ व्यजिज्ञपन्नृपं मन्त्री नायं तत्कथनक्षणः । न पारयति यद्देवस्तं श्रोतुं राजलीलया ॥ ५४३ ॥ जगाद सादरं स्वामी सचिवैतत्किमुच्यते । प्राणवाणकरो यो मे न शृणोमि तमप्यहम् ॥ ५४४ ॥ निर्बन्धेऽभिदधे सैष स्तम्भतीर्थपुरे पुरा। कर्हि मे भविता स्वास्थ्यमिति देवस्य पृच्छतः ॥ ५४५ ॥ राज्याप्तिपत्रिकादायि लिखित्वैकापरा मम । येन तेनेदमावेदि ज्ञानं श्रीहेमसूरिणा ॥ ५४६॥ इत्युक्त्कादीदृशन्मन्त्री पत्रीं तां भूभृते तदा । सोऽपि तां वाचयित्वा द्राग्विस्मेरः सूरिमस्मरतः (?)॥ ५४७ ॥ ऊचे च सचिवं कीदृक् सूरीयं ज्ञानमद्भुतम् । प्रत्याययन्मनो यन्मे राज्याप्तिदिवसेऽद्य च ॥ ५४८ ।। स वास्तीत्यनुयुक्तः सन् जगादोदयनो मुदा । अधुनात्राप्तवानस्ति तवासीर्वितितीर्षया ॥ ५४९ ॥ मन्त्री ततस्तदादिष्टस्तदुक्तं प्रणिगय तत् । हेमाचार्य सहादाय नृपास्थानामुपास्थित ॥ ५५० ॥ दृष्टा सूरीन्द्रमायातं विनयकावतिर्नृपः । अभ्युतस्थौ यथा शुक्लापाङ्गो वार्षिकवारिदम् ( ? ) ॥ ५५१ ॥ .. मूर्ते स्वभक्तिप्रग्भार इव हेमासनेऽद्भुते। निवेश्य तं नमश्चक्रे विधिवत्सविनेयवत् ॥ ५५२ ।। प्रांशुदन्तांशुरोचिभिर्दिशो धवलयन्निव । इत्याशीर्वादयामास भूवासवमथ प्रभुः ॥ ५५३॥ The King, ashamed of his ingratitude at not remembering him as soon as he attained sovereignty, asked pardon of Hemacandra and said अनुगृह्णीष्व मामद्य राज्यलक्ष्मीपरिग्रहात् ॥ ५६३ ॥ ___ अथ भूभृन्मुखोद्भूतभक्तिभङ्गितरङ्गितैः । प्रीणितात्मा प्रभुः प्रोचे सिञ्चन्निव सुधारसैः ।। ५६४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy