SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Desină mamala इत्थं विकत्थसे कस्मात्स्वं मुधा वसुधाधव । उपकारक्षणो यत्ते संप्रत्यास्ति समागतः ॥ ५६५ ।। त्वमेव मौलिमाणिक्यं कृतज्ञानां कृतिन्नास । स्वपूर्वज इवाभाति यस्येदृग्गौरवं मयि ॥ ५६६ ॥ यच्चार्थयसि राज्यार्थ तत्त्वद्भक्तेः कियत्किल । परं न युज्यते देव तन्मे चारित्रचारिणा ॥ ५६७ ॥ सर्वसङ्गपरित्यागश्चारित्रं जगदे जिनैः । तत्प्रणश्यति राज्येन जलयोगेन चित्रवत् ॥ ५६८॥ नियमश्री नृपश्रीश्च विद्विषाते परस्परी ( ?)। यदेकस्याः प्रवेशेऽन्या सपत्नीव पलायते ॥ ५६९ ॥ कृतज्ञत्वेन चेद्भप त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैने धर्मे धेहि निजं मनः ॥ ५७० ॥ मदनतस्त्वया प्रागप्येतदस्ति प्रतिश्रुतम् । उक्तं सत्याप्यतां तत्स्वं महती न हि गीर्घषा ॥ ५७१ ॥ __ अलोलुपत्वं सूरीन्दोनिस्पृहस्येव वीक्ष्य तत् । कुमारपालो विस्मेरास्तमूचे विनयाञ्चितः ॥ ५७२ ॥ भवदुक्तं करिष्येऽहं सर्वमेव शनैःशनैः । कामयेऽहं परं सङ्गं निधिरेव तव प्रभो ॥ ५७३ ॥ भवत्सङ्गाद्यथा किञ्चित्तत्त्वं बुध्ये स्वचेतसि । सत्सङ्ग एव यत्तत्त्वप्राप्तावोपयिकं विदुः ॥ ५७४ ॥ He then preached a sermon to Kumārapāla. On another occasion, in order to win over the King to the Jain faith, Hemacandra even bowed to Somanatha in his presence. Kumārapāla thus became & disciple of Hemacandra and under his direction did many things to spread the Jain religion. He for bade animal slaughter, spirituous drinks, dice-playing and such other vices in his kingdom. A number of vihāras were built. At last when his end was drawing near, Hemacandra narrated to Kumārapāla the previous history of the King and himself. And अथ नूतनशब्दानुशासनप्रमुखैः शुभैः । त्रैविद्याधिष्ठितैर्ग्रन्थैर्ज्ञानसत्रं प्रवर्तयन् ॥ १२२ ॥ स्वयं तिष्ठन् क्रियामार्गे स्थापयन्नपरानपि । षष्ठाष्टमप्रभृतिभिस्तपोभिर्द्धर्ममेधयन् ॥ १२३ ॥ उल्लासयन्मतं जैनं शशीव कुमुदाकरम् । आयुश्चतुरशीत्यब्दान् हेमाचार्यः समापयन् ॥ १२४ ॥ सम्यक् ज्ञानेन केनापि ज्ञात्वा पर्यन्तमात्मनः । गच्छशिक्षां च विश्राण्य भ्रातृप्रद्युम्नसूरये ॥ १२५ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy