SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ संपा० मुनि शोलचन्द्रविजय प्रतिबन्धककोटिः पूर्वे( 4 ) यथोपपादिता, सा तत्र भवतामांचकरा संवृत्तेति मे तृष्णीम्भावो, न त्वन्यथा ।। क एष ते स्वभावः, यत् कुत्रचित् फु(स्फु)ति कुत्रचिन्नेति ? । घटाऽभाव इत्यत्राऽभावपद मभिव्याहाराद् घटपदस्य घटनिष्ट(ष्ठ)प्रतियोगिताके लक्षणेति त्वयैवोपपादितं, अथ च 'संयोगेन घटवभूतलम्' इत्यत्र सन्तमपि 'ज्ञान' पदसमभिव्याहारं न पश्यसि ! माश्चर्यमेवैतत् ।। प्रबुद्धोऽस्मि । वमोदानीम् । शृणुत । संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नघटनिष्ट(ष्ठ )प्रकारतानिरूपितभुतलत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यिताशालिसंयोगेन घटवभूतलमिति ज्ञानं, संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न' घटनिष्टा(ठ)प्रतियोगिताकाऽभावनिष्ट(ठ)स्वरूपसम्बन्धावच्छिन्नप्रकारतानिरूपितभूत - लत्वाववच्छिन्नविशेष्यतानिरूपितविशेष्यताशालि संयोगेन घटाऽभाववद्भूतलम्' इति ज्ञान प्रति प्रतिबन्धकमिति प्रतिबध्यप्रतिबन्धकभावः पर्यवस्यति । एवं च 'संयोगेन घटवभूतलम्' इति ज्ञानोत्तरं 'संयोगेन घटाऽभाववद्भुतलम्' इत्येव ज्ञानं न भवति, संयोगेन धटपटोभयाऽभाववद्भुतलमिति तु निर्विघ्नं भवेत् । घटपटोभयाऽभावस्य घटाऽभावत्वेऽपि न घटत्वावच्छिन्नप्रतियोगिताकत्वं, किन्तु घटपटोभयत्वावच्छिन्नप्रतियोगिताकत्वम् । तथाविधाऽभाववत्ताबुद्धि प्रति तु 'संयोगेन घटपटोभयवद्भुतलम्' इत्यै(त्ये)व प्रतिबन्धकं भवेदित्यनवधम् । __ चिरं जीवतु भवान् । यतः साधूपपादितम् । अस्त्वेतत् । एवं चाऽभावस्य द्वो सम्बन्धौ वेदितव्यो । एकः प्रतियोगितावच्छेदकः, अपरश्च वृत्तिनियामकः । भाषस्तत्र तत्र भियते, यथा-'संयोगेन "घटाऽभाव' इत्युक्तो संयोगः प्रतियोगितावच्छेदकः, 'समवायेन घटाऽभाव' इत्युक्तो समवाय इति । द्वितीयो(य)स्तु सर्वत्र एक एव स्वरूपसम्बन्धः, अभावस्य स्वरूपेणैव वृत्तः । स चाऽभावोऽनेकधा । सामान्याऽभावः१, वैशिष्टयावच्छिन्नप्रतियोगिताकः २, व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकः ३, अन्यतराऽभावः ४, सामान्यरूपेण विशेण्याऽभावः ५, विशेषरूपेण सामान्याऽभाव: ६, व्यधिकरणसम्बन्धावन्छिन्नप्रतियोगिताकः ७, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक (८) इत्यादि-१ मैदात् । यथा 'घटो नास्ती'त्ययमभावः सामान्याऽभावः । अस्य प्रतियोगिताया घटत्वरूपसामान्यधर्मेणैवावच्छिन्नत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy