SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सपा मुनि शीलचन्द्रविजय निर्णयो भवति । अतो घटाऽभावोयाधनिष्ठा प्रितयोगिता संयोगसम्बन्धावच्छिन्ना भवति । एवं घटत्वावच्छिन्नाऽपि भवति । भो(भोः!) किञ्चित् प्रष्टुमिच्छामि । पृच्छ पृच्छ । तहिं पृच्छयते । या हि प्रभावीया प्रतियोगिता सा केनचित् सम्बन्धेनावच्छिन्ना भवतीति भवदुपदेशेनाऽवगतं, तत्रैव संशयः - किमर्थ प्रतियोगिता सम्बन्धावच्छिन्ना स्वीकार्या ! । उच्यते । यदि प्रतियोगिता किञ्चित्सम्बन्धावच्छिन्ना न स्वीक्रियते, तदा प्रतिबध्यप्रतिबन्धकभावो न स्यात् । कथं न स्यात् । स्याच्चेत् कुरु । शृणुन, क्रियते । 'घटवभूतलम्' इति ज्ञानं 'घटाऽभाववद्भूतलम्' इति ज्ञानं प्रति प्रतिबन्धकमिति प्रतिबध्यप्रतिबन्धकमावस्वीकारे को दोषः ।। अरे ! कथं विचारमूढोऽसि ? । पश्य, 'संयोगेन घटवभूतलम्' इति ज्ञाने सत्यपि 'समवायेन घटाऽभावबद्भुतलम्' इति ज्ञानं भवत्येवेति कथं वदसि 'घटवदभूतलम्' इति ज्ञानं घटाऽभाववद्भुतलम्' इति ज्ञानं प्रति प्रतिबन्धकमिति" ? । आयुष्मन्नेवमवतर मार्गेण । वद तर्हि प्रतिबन्धक[कोटौ] प्रतिबध्यकोटौ वा 'संयोगेनेति प्रवेशितं त्वया, तस्य क्वाऽन्वयः ? । विचार्य वच्मि । आगतं । घटवदिति मतुबा भूतले घटाधिकरणत्वे ज्ञाते घटे भूतलाऽऽधेयताऽपि प्रतीयते इति तस्यामेवाऽऽधेयतायां 'संयोगेनेति तृतोयान्तार्य(2)स्य संयोगावच्छिन्नत्वस्याऽन्वयः । एवं च 'संयोगेन घटवभूतल' मिति ज्ञानमित्यस्य 'संयोगसम्बन्धावच्छिन्नघटत्वनिष्टा(ठा)ऽऽधेयतानिरूपिताऽधिकरणतावद्भूतल'मिति ज्ञानमित्यर्थः सम्पद्यते । स्वानुरूपं प्रयतितं त्वया ! भवतु, अग्रे वद । किं मदुक्तसमोचीनमेव सम्पन्नम् ? । स्पष्टमग्रे भविष्यति । इदानी प्रतिबध्यकोटौ प्रविष्टं त्य 'संयोगेने ति, तस्याऽन्वयं वद । पूर्ववदेवाऽस्त्यन्वयस्तत्र किं वक्तर्व्यः (व्यम्) । अथापि वद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy