SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री न्यायसिद्धान्तप्रवेशकन्थिका शृणु । ' प्रतियोगि' पदस्य स एवार्थो भवति । तथा हि-' प्रतियोगि'पदस्य सन्ति त्रयोऽवयवाः, 'प्रति' पदं, 'योग' पदं, तद्धितप्रत्ययश्च । तत्र 'प्रति''पदस्य 'प्रतीपं स्थित्वा' इत्यर्थः । 'समीपं स्थित्वा' इति फलितोऽर्थ । 'प्रश्रमम्' इति यावत् । तद्धितान्तस्य 'योगविशिष्टः' अर्थः । फलितार्थस्तु 'सहोश्चरित : ' इति 'मिलित्वाऽभावेन प्रथमं सहोश्चरित : ' इति । एवं चाऽस्मदुक्त एवं संपन्नोऽर्थः । ननु 'प्रति 'पदस्य नेममर्थमश्रौषम् ! । ५० शास्त्रान्तराण्यवलोकय । शृणु । अस्ति तावच्छ्रोतविद्याशास्त्रं मीमांसान्तर्गतं, तस्य 'बोधायनसूत्र' मिति नाम । तत्र 'प्रतिमन्त्रयते, अनुमन्त्रयते' इत्यादीनि सुत्राणि तद्वयाख्यातृभिः 'धूर्त्तस्वामी' प्रभृतिभिर्महापण्डितैः, 'प्रतिमन्त्रयत्त' इत्यस्य ‘प्रतीपं स्थित्वा मन्त्रयत' इत्येवार्थः कृत इति । किं चाऽलङ्कारशास्त्रे 'प्रतीपा'लङ्कारपदस्येदमेव प्रवृत्तिनिमित्तं यदुपमेयमुपमानं प्रतीपं स्थित्वा तिरस्करोति । यथा - " अस्या मुखेन्दुना लब्धे, नेत्रानन्दे क्रिमिन्दुना " इति । अत्र यद्यपि 'प्रतीप' [१]दस्याssलङ्कारिकैरम्य एवार्थः कृतस्तथाप्यस्मदुक्तार्थस्तेन न हीयते । तथा हि-मुखेन्दुर्यदि प्रसिद्धेन्दु समीपस्थो न भवेच्चेत् कथं कामुको वदेदस्या मुखेन्दुना लब्धे नेत्रानन्दे : किमिन्दुनेति ? । तस्मात् 'प्रतियोगि' पदस्थ 'प्रति 'शब्दस्य योऽयमर्थः प्रदर्शितः स सुवच एव ननु 'प्रतियोगी' त्यस्थ 'विरोधी' त्येवार्थः कुतो न क्रियते । भवति च घटः स्वाभावस्य विरोधी, नहि घटवति घटाभावोऽस्तीति । सत्यम् । अभावप्रतियोगित्वस्याऽभावविरोधित्वरूपस्य सुवचत्वेऽपि सम्बन्धप्रतियोगित्वं न तथा । पश्य, भूतले संयोगेन घटो वर्त्तते, तस्य संयोगस्य प्रतियोगी घटः, स न संयोगस्य विरोधीति विरोधित्वरूपं प्रतियोगित्वं सर्वत्र दुर्लभमित्यस्माभिर्न तथोक्तम् । एवं च 'घटाभाव' इत्युक्ते घटनिष्ट (ष्ठ ) प्रतियोगिताकाऽभावो बोध्यः, अभावीयप्रतियोगितायाः घटनिष्ट (ष्ठ ) त्वात् । सा च प्रतियोगिता अभावाऽधिकरणे स्वप्रतियोगिनो येन सम्बन्धेनाऽसत्वं तत्सम्बन्धावच्छिन्ना भवति । यथा - घटisभाववति भूतले घटाऽभावप्रतियोगिनो घटस्य येन सम्बन्धेनाऽसत्त्वं- संयोगसम्बन्धेऽनासत्त्वमतः तत्सम्बन्धावच्छिन्ना जातेति । मथवा अभावाऽधिकरणे अभाव - ग्रहात् पूर्वं येन सम्बन्धेन प्रतियोगिनो निर्णयो लोके भवति तत्सम्बन्धावच्छिन्ना भवति । पश्य, घटाभावाधिकरणे भूतले घटाभाववभूतल मितिनिर्णयात् पूर्वं प्रतियोगिनो घट्स्य येन सम्बन्धेन निर्णयो भवति 'घटवद्भूतल' मिति संयोगेन Jain Education International 20 For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy