SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ४९ - संपा. मुनि शीलचन्द्रविजय गुरुश्च भवत्वितोच्छा जायते न त्वन्यथेति । तथा चेच्छां प्रति ज्ञानं असमवायिकारणमेव भवेत् , इच्छासमवायिकारण आत्मनि ज्ञानस्य समवेतत्वे सति कारणस्वात् । प्रोक्तक्रमेण कार्यसमवायिकारणसादृश्यावच्छेदकगुणत्वजातिमत्वात्" इष्टापत्तिश्च कर्तुं न शक्यते । तथा सति आत्मविशेषगुणानां कुत्राप्यसमवायिकारणं"(णत्वं) नास्तीति डिण्डिमो व्याकुप्येतेति चेत् । तद्भिन्नत्वं प्रवेशय । प्रकृतमनुसरामः । क्रियां प्रति कुत्रचित(द) गुणः कुत्रचित् क्रियैवाऽपमवायिकारणम् । यथा पतनक्रियां प्रति गुरुत्वं, स्यन्दनकियां च प्रति द्रवत्वं, अवयविकियां प्रति चाऽवयवक्रियेति । परमत्राऽवधेयम् । एतत् कारणत्रयं भावकार्यस्यैव । वंसरूपकार्य तु निमित्तकारणमात्रादेवेति । परन्तु सर्व भावकार्य कारणत्रयाजायत इति न नियमः, किन्तु कारणत्रयमपेक्षते चेद भावकार्यमेवेति नियमः कार्यः । यतो हि व्यणुकारम्भकसंयोगजनकपरमाणुक्रियाया असमबायि कारणं किमपि न पश्याम इति । ननु तहिं परमाणुक्रिया समवायिकारणनिमित्तकारणाभ्यामेव जायते । तत्र परमाणुः समवायिकारणं भविष्यति, परन्तु निमित्तकारणं कि भविष्यति ? तन्न जानामि । शृणु । श्रीजगन्नियन्तुः परमेश्वरस्य चिकिपैवेति गृहाण । यद्यपि परमेश्वरस्येच्छाया इच्छात्वेन साधारण कारणत्वेऽपि विकोषोत्वेनाऽसाधारणकारणत्वे क्षतिविरहात् ॥ इति कार्यकारणभावोपदेशः ॥ समर्थस्य दयालोस्ते, सुखायैव दयालुता । इति मत्वा परेशार्हन् ! याचेच्छात्रस्य विज्ञताम् ॥१॥ अथ प्रतिवध्यप्रतिबन्धकमावस्याऽभावज्ञानतत्ज्ञान(तज्ज्ञान)साध्यत्वादादावभानमुपदिश्य तज्ज्ञानमुपदिश्यते । सत्र तावत् केवलम् 'अभाव' इत्युको न कस्यापि बोधो जायतेऽतोऽमावपदात् "पूर्व(4) यस्याऽभावो वक्तुभिष्टस्तद्वाचकं पदमुच्चारणीयम् । यथा-अयं यदा घटस्था(स्या)ऽभावं वक्तुमिच्छति तदा 'घटाऽभाव' इत्येवं वदति, न तु केवलम् 'अभाव' इति । अतोऽभावो(वः) केनचिन्वि(न्नि)रूप्यो भवति । येन हि घटादिना निरूप्यते स घटादिस्तस्य प्रतियोगीति शास्त्रकृद्भिरुच्यते । । किं कारणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy