SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीन्यायसिद्धान्तप्रवेशकन्थिका नाशात् , श्येनाद्रिसंयोगजनकक्रियानाशेऽपि तस्य नाशाऽदर्शनात् । किन्तु विभागरूपगुणान्तरादेव भवतीति । नन्वेवं सति संयोगं प्रति क्रियाया कथमसमवायिकारणत्वम् ! संयोगनाश जनकनाशप्रतियोगित्वाऽभावेन समवायिकारणसदृशत्वाऽभावात् । सत्यम् । अत एव पूर्वाचार्यैः 'तत्रासन्नं जनकम्' इत्यस्ये)वाऽसमवायिकारणलक्षणमुक्तम् । तच्च घटत एव । मेषसंयोगरूपकार्यसमवायिकारणे मेषे क्रियाया आसन्नत्वात् समवायेन सत्त्वात् । अस्माभिस्तु असमवायि कारणपदस्य प्रवृत्तिनिमित्तमात्रमुक्तम् । तेन माऽस्मदुक्तेर्व्याघातः शङ्क्यः । शास्त्रकारा हि तथैव प्रायशो वदन्ति । पश्य, पृथिव्यादीनां गन्धवतोत्यादि लक्षणानि न सर्वासु पृथिव्यादिषु वर्तेते (र्तन्ते)। उत्पन्नविनष्टपृथिव्यादिषु कुत्र वर्तते गन्धः? उत्पन्न द्रव्यं क्षणमात्रं निर्गुणं निष्क्रियं च तिष्ठतीति नियमात् । तस्मादेवंजातीयकानां लक्षणवाक्यानां जातिघटितलक्षणे तात्पर्यमवसेयम् । इदं च प्रकृते समवायिकारणसादृश्यावच्छेदकगुणत्वकियात्वान्यतरजातिमत्वे समवायिकारणसदृशमित्यस्य तात्पर्य" गृ(ग्रा)ह्यम् । कथं घटत इति चेत् ? । इत्थम् । पूर्वोक्तप्रकारेण घटकार्यसमवायिकारणकपालसादृश्यं कपालसंयोगेऽस्ति । तदवच्छेदकं गुणत्वं जातं वा न वेति स्वयमेव विचारय । विचारितम् । कपालसंयोगस्य गुणत्वात् तवृत्तिसादृश्यावच्छेदकं गुणत्वं जातमिति । तहिं इदं विचारय-अवयविसमवेतगमनादिक्रियां प्रति पादसमवेतगमनक्रिया समवायिकारणमस्ति न वा ? अस्ति । यथा घटरूपं प्रति कपालरूपमिति । पश्य तहिं, अवयविक्रियानाशोऽवयवक्रियानाशादेव भवतीति। अवयविक्रियानाशजनकनाशा(शो)"5"वयविनाशो"ऽवयवक्रिया नाशश्चेति प्रोक्त रूपेणाऽवयविक्रियासमवायिकारणस्याऽवयविनः सादृश्यमवयव क्रियायां वर्तत इति सादृश्यावच्छेदक क्रियात्वं, तच्च संयोगजनकक्रियायामध्यस्तीति काऽव्याप्तिशङ्का ? अपरं प्रष्टव्यं वा ? सुखेन प्रष्टव्यम् । सादृश्यं यदि जातिघटितं तदा ज्ञानादीनामिच्छाधसमवायित्वं कुतो न । तथा हि-इच्छा तस्यैव जायते यश्चेष्टत्वेनेष्टसाधनत्वेन वा पूर्व ज्ञातं भवति । यथा'ज्ञानं मदिष्टं' 'गुरुश्व ज्ञानसाधनम्' इति । येन प्रथमतो ज्ञानं तस्यैव मे ज्ञान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy