SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अध्य स्ततिलोकः॥ लेखक बद्रिकाश्रमान्तर्गतमनोड़ाग्रामवास्तव्य साहित्याचार्य पं. माधवानन्द शास्त्री योगाभोगानुगामी द्विजभजनजनिः शारदारक्तिरक्तो, दिगजेता जेतृजेता मतिनुतिगतिभिः पूजितो जिष्णुजिकैः । जीयाद् दायादयात्री खलबलदलनो लोललीलस्वलज्जः, केदारोदास्यदारी विमलमधुमदोद्दामधामप्रमत्तः ॥१॥ प्रथमोऽर्थः--स प्रसिद्ध आत्माराममुनि नो धर्मश्च जीयात् सर्वोत्कर्षेण वर्ततामित्यर्थः।। कथंभूतः स मुनिर्धर्मश्च(योगाभोगानुगामी) योगश्चित्तवृत्तिनिरोधस्तस्याऽऽभोगः संपूर्णता विस्तारता तदनुगामी तदनुसरणशीलश्चित्तवृत्तिनिरोधेन योगप्रतिपादकशास्त्रानुगामीत्यर्थः । धर्मोऽपि कीदृक्षो योगानां जिनवचननिःस्मृतपंचचत्वारिंशत्सूत्राणां य आभोगो नानाविधप्रवचनतया विस्तारता तदनुगामी तदनुकूलयायी । पुनः कीदृशोऽसौ मुनिपुंगवो धर्मश्च (द्विजभजनजनिः ) द्विजस्य जन्मगर्भसंस्कारतया क्षत्रियस्य यद् भजनं गृहं तत्र जनिः कल्याणकारिण्युत्पत्तिर्यस्य स तथा-धर्मोऽपि द्विजानां ब्राह्मणक्षत्रियविशां नानाधर्मोपदेशवचनैर्भजनाय सेवनाय जनिर्जगति प्रादुर्भावो यस्य स तादृक्षः । पुनः किंप्रकारः स योगिराद् पावनधर्मश्च ( शारदारक्तिरक्तः ) शीर्य्यन्तेऽनेकभवकृतपापानि समूलमनेनेति शारं ज्ञानं, ज्ञानं ददाति, इति शारदा विद्याप्रदा सा प्रसिद्धा सरस्वती, तस्यां याऽऽरक्तिरासक्तिस्तत्र रक्तोऽहर्निशसद्विद्याध्ययनशीलः । धर्मोऽपि शारदायां सद्विद्यायां याऽऽरक्तिर्नानाज्ञानोपकरसामग्र्यैकनिष्ठा तत्र रक्तस्त्रिधा तल्लीनोऽहर्निशसामायिकप्रतिक्रमणविद्याध्ययनादिव्यापारेण संलग्नोऽर्थात्तत्र भविकजननियोजक इत्यर्थः । पुनः कथंभूतः स मुनिर्धर्मश्च ( दिगजेता) विषयेभ्य आत्मानं जयति जेता दिशां जेता दिग्जेता-वा दिशो जयति-दिग्जेता-स्वातुलमेधया तत्रस्थान् प्रबल •: २०८:. [ श्री आत्मारामजी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy