SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पं. माधवानंद शास्त्री वादिकण्ठीरवान् जयतीति दिगजेता--धर्मोऽप्यहिंसापरमो धर्मः, सर्वे जीवाः समाना इति दयामयदुंदुभिघोषेण सर्वदिगवर्तिविविधमतावलंबिप्रखरवावदूकान् जयतीति-दिग्जेता । पुनः कीदृक्षोऽयं मुनिधौरेयो धर्मश्च-(जेतृजेता ) जयन्ति स्वपाण्डित्येन जनानिति जेतारस्तानपि जयतीति जेतृजेता-कुतर्काभिमानग्रसितप्राणिसुबुद्धिक्षुप्रांकुशतया विवादैकरतीन् सामान्यबुद्धिमद्भिरजेतृनपि जयतीति जेतृजेता-इत्यर्थः ॥ धर्मोऽपि पुनः कीदृश अनेकान्तवादप्रतिपादकस्याद्वादमहापंचास्यरवनादेन दिशि दिशि पलायितान् जेतृनपि जयतीति जेतृजेता-पुनः कथंभूतः स मुनिर्धर्मश्च-( जिष्णुजिकैः पूजितः)। जयतीति जिष्णुर्वासव इन्द्रस्तद्गुणवर्णने जिह्वा रसनाव्यापारो येषां ते जिष्णुजिह्वा देवास्तैरपि पूजितस्तद्गुणश्रवणजाताहादतया सत्कृतो धर्मोऽप्यहिंसामयत्वाजिष्णुजिकैः पूजित एव जयति निखिलरागादिकारीनिति जिष्णुर्वीतरागस्तत्र जिह्वा येषां ते जिष्णुजिह्वा देवा भुवनवर्तिनश्च तैः पूजितस्तथाहि समवसरणरचनादिषु तीर्थंकराणामतिशयं दृष्ट्वा करांजलिबद्धसुरभिकुसुमवृष्टिवर्षणतया देवैरपि संभावितः किमुत-अन्यैः । वा जयति सर्वानिति जिष्णु धनं तदर्जन एव जिह्वा वागल्यापारो येषां ते जिष्णुजिह्वा नैगमास्तैः पूजितः सादरं भक्त्यार्चितः पूजादिभिर्वृहितश्च । कथंभूतैर्जिष्णुजिह्वः ( मतिनुगतिभिः )। मत्या बुद्ध्या या नुतिः प्रशंसा कीदृशोऽयं भुवनभानुरात्माराममुनिरिति तद्गुणप्रशंसायां गतिरिंद्रियव्यापारो येषां ते मतिनुतिगतयस्तैर्मतिनुतिगतिभिः । वा धर्मपक्षे मतेर्ज्ञानस्य या नुतिः स्तुतिः स्वच्छीभूय देवालयगुरुवन्दनादौ या तीर्थकराणां स्तुतिर्गद्यपद्यमयवाण्याः स्तवनं तत्र गतिर्गमनागमनं येषां ते तैस्तथोक्तैः । अथवा मतिनुतिगतिभिरिति विशेषणं हेतुकोटिप्रवेशतया कथंभूतो मुनिराजो धर्मश्च तथा ( मतिनुतिगतिभिः )। मत्या मेधया ज्ञानेन नुत्या स्तुत्या गत्या नानाविधकाव्योपायैदिग्जेताऽतो जेतृ जेता च । इत्यप्यर्थसंगतिः । तथा जिष्णुजिह्वरिति पदं स्वतंत्रमेवावधार्यम् । पुनः कथंभूतः स मुनिराजो धर्मश्च (दायादयात्री) दायादा नाशवन्तः संसारकारिणो ये कौटुम्बिकास्तेभ्यो या यात्रा परोपकृतिपथगमनं यस्य स दायादयात्री । धर्मोऽपि दायादे विभागकरणे सपिण्डादिदेयभागविभागकरणे यात्री शास्त्रीयवचनोपदेशतया सत्यमार्गदर्शकः ।। पुनः किंविधोऽसौ योगिराजो धर्मश्च ( खलबलदलनः ) खानीन्द्रियाणि लान्ति बलात् विषयेषु पातयन्ति-गृह्णन्ति वा खला विषयाः शब्दादयस्तेषां बलं बलाद् भोगेषु पातनं तद् दलति शताब्दि ग्रंथ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy