SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ... प्रमाणनयतत्त्वालोकसूत्राणि . ३७. इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा । १९ . ३८. पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः। १९ ३९. ययेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव भिन्नशब्दत्वात, - करि-कुरङ्ग-तुरङ्गशब्दवदित्यादिः । २० ४०. शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः । २० ४१. यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरिणप्रवृत्तः पुरन्दरः इत्यु च्यते । २० ४२. क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः। २१ ४३. यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्त... भूतक्रियाशून्यत्वात् पटवदित्यादिः । २२ ४४. एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः । २२ ४५. शेपास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः । २२ ४६. पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः । २३ ४७. सन्मात्रगोचरात् संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः । २३ ४८. सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहु. विषयः । २३ ४९. वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः । २३ ५०. कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः। २४ ५१. प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूत विषयः । २४ ५२. प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवभूतात् समभिरूढस्तदन्यथार्थस्थाप कत्वान्महागोचरः । २५ ५३. नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति । २५ ५४. प्रमाणवदस्य फलं व्यवस्थापनीयम् । २६ ५५. प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा । २७ .५६. चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्र भिन्नः पौद्गलिकादृष्टवांश्वायम् । ५२ . ५७, तस्योपात्तपुंस्त्रीशरीरस्य सम्यगज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः । ८० -
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy