SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकसूत्राणि १२. यथाऽऽत्मनिं सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः । १० १३. सामान्यमात्रग्राही परामर्शः संग्रहः । १० ४२ १४. अयमुभयविकल्पः परोsपरश्च । ११ १५. अशेषविशेषेष्वौदामीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः । ११ १६. विश्वमेकं सदविशेषादिति यथा । ११ १७. सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः । १२ १८. यथा सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात् । १२ १९. द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः । १२ २०. धर्माधर्माका शकाल पुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा । १३ २१. द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषा न्निनुवानस्तदाभासः । १३ " २२. यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः । १३. २३. संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः । १४ २४ यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः । १४ २५. यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः । १५ २६. यथा चार्वाकदर्शनम् । १५ २७. पर्यायार्थिकचतुर्द्धा ऋजुसुत्रः शब्दः समभिरूढ एवंभूतश्च । १६ २८. ऋजु वर्त्तमानक्षणस्थायि पर्याय मात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः । १६ २९. यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः । १६ ३०. सर्वथा द्रव्यापलापी तदाभासः । १६ ३१. यथा तथागतमतम् । १७ ३२. कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । १७ ३३. यथा बभूव भवति भविष्यति सुमेरुरित्यादिः । १७ ३४. तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः । १८ ३७. यथा वभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकाला : शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात् तादृसिद्धान्यशब्दवदवत्यादिः । १८ , ३६. पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । १८ 2:
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy