________________
५. ५ क्षणभङ्गनिराकरणम् ।
१९५ (टि०) अपेक्षणीयेति सहकारिकारणीसामीप्यभावः । तत्संनिधेरिति अपेक्षणीयसंनिधेः । तस्येति उपकारस्य ।
अनेकाधीनेति कार्य हि उत्पादमासादयत् वहुकारणेभ्यः पूर्णतामेति । तानिति सहकारिणः। तस्येति कार्यस्य । अस्वतन्त्रत्वादिति अनिष्पन्नत्वेनेति भावः । तदिति कार्यम् । तत्साकल्पपीति सहकारिकारणसामग्र्ये । तदिति नित्यवस्तु । तथाचेति वस्तुतोऽसत्कल्पत्वे । व्यापकानुपलब्धिरिति निषेध्यस्यार्थक्रियाकारित्वस्य व्यापको क्रमाक्रमौ तयोरनुपलब्धिः । अक्षणिकादिति कालत्रयावस्थानाभिमानाभिमतभावराशेः ॥
$४ अत्राचदमहे । ननु क्षणभिदेलिमभावाभिधायिभिक्षुणा कारणग्राहिणः, कार्यग्राहिणः, तद्व्यग्राहिणो वा प्रत्यक्षादर्थक्रियाकारित्वप्रतीतिः प्रोच्येत, यतस्तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेवेत्युक्तं युक्तं स्यात् । न तावत्पौरस्त्यात् , तस्य कारणमात्रमन्त्रणपरायणत्वेन कार्यकिंवदन्तीकुण्ठत्वात् । नापि द्वितीयात् , तस्य कार्यमात्रपरिच्छेदविदग्धत्वेन कारणावधारणवन्ध्यत्वात् । तदुभयावभासे च 'इदमस्य कारणम् , कार्य च' इत्यर्थक्रियाकारित्वावसायोत्पादात् ।
वस्तुस्वरूपमेव कारणत्वम् , कार्यत्वं चेति तदन्यतरपरिच्छेदेऽपि तद्बुद्धिसिद्धिरिति चेत् । एवं तर्हि नालिकेरद्दोपवासिनोऽपि वह्निदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य, धूमदर्शनादेव वन्हिजन्यत्वनिश्चयस्य च प्रसङ्गः । नापि तृतीयात् , कार्यकारणोभयोग्राहिणेः प्रत्यक्षस्यासंभवात् , तस्य क्षणमात्रजीवित्वात्, अन्यथाऽनेनैव हेतोर्व्यभिचारात् । तदुभयसामर्थ्यसमुद्भूतविकल्पप्रसादात्तदेवसाय इति चेत् । तर्हि कथं प्रत्यक्षेण तत्प्रतीतिः ? . ५ प्रत्यक्षव्यापारपरामर्शित्वात् विकल्पस्य, तद्द्वारेण प्रत्यक्षमेव तल्लक्षकमिति चेत् । ननु नै कार्यकारणग्राहिणोरन्यतरेणापि प्रत्यक्षेण प्राकार्यकारणभावो भासयामासे, तत् कथं विकल्पेन तद्व्यापारः परामृश्येतं ? इति न क्षणिकवादिनः काप्यर्थक्रियाप्रतीतिरस्तीति वाद्यसिद्धं सत्त्वम् ।
६४ रैन मोही! ममे तमा२॥ २३॥ ४थनन। त्त२ मा पाये छीमे--
ક્ષણભંગુર (ક્ષણિક) પદાર્થનું કથન કરનાર હે બૌદ્ધ ! તમોએ ક્ષણિક શબ્દદિ ધમીમાં અર્થ ક્રિયાકારિત્વ પ્રત્યક્ષ પ્રમાણથી પ્રસિદ્ધ છે એમ કહ્યું છે (પ્ર. ) પણ તમારું તે કથન યુકત શાથી માનવું ? શું કારણનું પ્રત્યક્ષ છે તેથી કે કાર્યનું પ્રત્યક્ષ છે તેથી કે ઉભયનું પ્રત્યક્ષ છે તેથી ? કારણગ્રાહી પ્રત્યક્ષથી અર્થ ક્રિયાકારિત્વની પ્રતીતિ કહી શકશે નહિ. કારણ કે તે માત્ર કારણની વિચારણામાં તત્પર હોવાથી કાર્યની કથા કરવા અસમર્થ છે. કાર્વગ્રાહી પ્રત્યક્ષથી પણ અર્થ ક્રિયાકારિત્વની પ્રતીતિ કહી શકશે નહિ, કારણ કે તે માત્ર કાર્યને(ઘટાદિ કારણ દ્વારા થતા જલાહરણુદિ કાયને) જ જાણવામાં ચતર હોવાથી કારણને નિશ્ચય કરવામાં સમર્થ નથી. વળી કારણ અને કાય એ