SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ स्मरणप्रामाण्यम् । ३. ४(टि.) अध्यगीपतेति अधिपूर्व इङ् अध्ययने । अद्यतनी अन्त "अद्यतनी क्रियाति. पत्त्योर्वा गीरादेश इष्यते" [कात०३.४.८५] गी, अड् धात्वादि, सिच् “आत्मने चानकारात्" कात०३.५.३९ वृत्तौ] सिद्धम् । व्यधिपतेति डधाञ् धा. (धारणे च), अद्यतनी अन्त । विपूर्वः । अधा०, सिचू "स्थादोरिरबतन्यामात्मने" [कात. ३.५.२९] आकारस्येत्वम् "आत्मने चा." [कात०३.५.३९] । अस्या इति स्मृतेः । ते इति योगाः । आम्नासिपुरिति । म्ना अभ्यासे म्ना आपूर्वः । अद्यत० अन् । सिच “यमिरमिनम्यादन्तानां सिरन्तश्च" [कात. ३.७.१०] इडागमः सिरन्तश्च । “अन उम् सिजभ्यस्त०” [कात०३.४.३१] इति उस् "निमित्तात्० [कात०३.८.२६] पत्वम् । तदिति [अ]प्रामाण्यम् । तत्रेति स्मृतेरप्रामाण्ये । हेतुरिति अनर्थजन्यादिति हेतुरनैकान्तिकः । शकटमिति शकटाकारत्वात् रोहिणी । ६३ परे तु मेनिरे न स्मृतिः प्रमाणम् , पूर्वानुभवविषयोपदर्शनेनार्थ निश्चिन्वत्याः । अथ-परिच्छेदे पूर्वानुभवपारतन्त्र्यात् । अनुमानज्ञानं तूत्पत्तौ परापेक्षं, स्वविषये तु स्वतन्त्रमेव । स्मृतेरिव तस्मात् पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् । तदुक्तम् "पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते । पूर्वज्ञानाद् विना तस्याः प्रामाण्यं नावगम्यते ॥१॥ तत्र यत् पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते । तदुपस्थानमात्रेण स्मृतेः स्याच्चरितार्थता" ॥२॥ इति । g૩ જ્યારે બીજા કેટલાક યૌગે માને છે કે સ્મૃતિ પ્રમાણ નથી, કારણકે-- તે પૂર્વે અનુભવેલ પદાર્થોનું ઉપદર્શન કરાવી અને નિશ્ચય કરાવતી હોવાથી અર્થનિશ્ચયમાં પૂર્વાનુભવને આધીન છે. શં અનુમાન પણ પરાધીન હોવા છતાં પ્રમાણ કેમ છે? સમાધાનઃ અનુમાન જ્ઞાન ઉત્પત્તિમાં પરની અપેક્ષાવાળું હોવા છતાં પણ સ્વવિષયમાં સ્વતંત્ર છે–પરાધીન નથી, કારણ કે-સ્મૃતિની જેમ તે પૂર્વાનુભવનું અનુસંધાન કરી પોતાના વિષયને નિર્ણય કરતું નથી. કહ્યું પણ છે કે પૂર્વજ્ઞાનના વિષયને વિષય કરનારું જ્ઞાન સ્મૃતિ કહેવાય છે, આથી પૂર્વજ્ઞાન વિના સ્મૃતિનું પ્રામાણ્ય અવગત થતું નથી. તેમાં પૂર્વજ્ઞાનનું પ્રામાણ્ય તો ઈષ્ટ છે, અને સ્મૃતિ છે તે પૂર્વાનુભવનું–પૂર્વજ્ઞાનનું ઉપસ્થાપન કરવામાં જ ચરિતાર્થ છે, આથી તે પ્રમાણરૂપ નથી.” ___(प.) निश्चिन्वत्या इति अस्याः स्मृतेः। पूर्वानुभवपारतन्त्र्यादिति प्रमाणं हि तदुच्यते यत् स्वतन्त्रं भवति । पूर्वानुभवेत्यादि । यथा स्मृतेः पूर्वानुभवानुसन्धानेनार्थप्रतीतिः, एवं तस्मादनुमानादर्थप्रतीतिर्न, किन्तु स्वतन्त्रादेव । पूर्वविज्ञानविषयमिति पूर्व विज्ञान विषयो यस्य तत् तथा । तदुपस्थापनमात्रेति तत्पूर्वविज्ञानमुपस्थापयति आत्मसमोपे आनयति । स्मृतेः स्याच्चरितार्थतेति एतावता स्मृतिः कृतार्था । एतावदेव स्ननः प्रयोजनम् , न पुनः स्मृतिः प्रमाणान्तरम् ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy