SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 148 गणितसारसङ्ग्रहः. समचतुरश्रा वापा नवहस्तघना नगस्य तले । अङ्गुलविस्ताराङ्गुलरवाताङ्गुलयुगलदीर्घजलधारा ॥ ४१ ॥ पतिताने विच्छिन्ना वापीमुरवसंस्थितान्तरालजलैः । सम्पूर्णा स्याद्वापी गिर्युत्सेधो जलप्रमाणं किम् ॥ ४२ ॥ इति वातव्यवहारे सूक्ष्मगणितं सम्पूर्णम् । चितिगणितम्. इतः परं वातव्यवहारे चितिगणितमुदाहरिष्यामः । अत्र परि भाषा-- हस्तो दीर्घो व्याप्तस्तदर्धमङ्गलचतुष्कमुत्सेधः । दृष्टस्तथेष्टकायास्ताभिः कर्माणि कार्याणि ।। ४३ ॥ इष्टक्षेत्रस्य वातफलानयने च तस्य खातफलस्य इष्टकानयने च सूत्रम्-- मुरवफलमुदयेन गुणं तदिष्टकागणितभक्तलब्धं यत् । चितिगणितं तद्विद्यात्तदेव भवतीष्टकासङ्ख्या ॥ ४४ ॥ अत्रोद्देशकः। वेदिः समचतुरश्रा साष्टभुजा हस्तनवकमुत्सेधः । घटिता तदिष्टकाभिः कतीष्टकाः कथय गणितज्ञ ॥ ४५ ॥ अष्टकरसमत्रिकोणनवहस्तोत्सेधवेदिका रचिता। पूर्वेष्टकाभिरस्यां कतीष्टकाः कथय विगणय्य ॥ ४६॥ समवृत्ताकृतिवेदिर्नवहसो; कराष्टकव्यासा। घटितेष्टकाभिरस्यां कतीष्टकाः कथय गणितज्ञ ।। ४७ ।। आयतचतुश्रस्य त्वायामः षष्टिरेव विस्तारः । पञ्चकतिः षड़ वेधस्तदिष्टकाचितिमिहाचक्ष्व ॥ ४८॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy