SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 146 गणितसारसहः. समचतुरश्राष्टादशहस्तभुजा वापिका चतुर्वेधा । वापी तज्जलपूर्णान्या नवबाहात्र को वेधः ।। २५ ॥ यस्य कस्यचित्खातस्य उर्ध्वस्थितभुजासङ्ख्यां च अवस्स्थित . भुजासङ्ख्यां च उत्सेधप्रमाणं च ज्ञात्वा, तत्खाते इष्टोत्सेधसङ्ख्याया भुजासङ्ख्यानयनस्य, अधस्सूचिवेधस्य च सङ्ख्यानयनस्य सूत्रम् मुखगुणवेधो मुरवतलशेषहतोऽत्रैव सूचिवेधः स्यात् । विपरीतवेधगुणमुरवतलयुत्यवलम्बहयासः ॥ २६ ॥ अत्रोद्देशकः । समचतुरश्रा वापी विंशतिरूवे चतुर्दशाधश्च । वेधो मुखे नवाधस्त्रयो भुजाः केऽत्र सूचिवेधः कः ॥ २७ ॥ गोलकाकारक्षेत्रस्य फलानयनसूत्रम् - व्यासार्धधनार्धगुणा नव गोलव्यावहारिकं गणितम् । तदशमांशं नवगुणमशेषसूक्ष्मं फलं भवति ॥ २८ ॥ भत्रोद्देशकः । षोडशविष्कम्भस्य च गोलकवृत्तस्य विगणय्य । किं व्यावहारिकफलं सूक्ष्मफलं चापि मे कथय ॥ २९॥ शृङ्गाटकक्षेत्रस्य रखातव्यावहारिकफलस्य खातसूक्ष्मफलस्य च सूत्रम् --- भुजकतिदलघनगुणदशपदनवहद्यावहारिकं गणितम् । त्रिगुणं दशपदभक्तं शृङ्गाटकसूक्ष्मघनगणितम् ॥ ३०॥ अत्रोद्देशकः । व्यश्रस्य च शृङ्गाठकषड्बाहुघनस्य गणपित्वा । किं व्यावहारिकफलं गणितं सूक्ष्मं भवेत्कथय ॥ ३१ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy