SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 144 गणितसारसहः. ____ अस्मिन् वातगणिते कर्मान्तिकसंज्ञफलं च औण्डूसंज्ञफलं च ज्ञात्वा ताभ्यां कर्मान्तिकोण्डूसंज्ञफलाम्यां सूक्ष्मखातफलानयनसूत्रम् – बाह्याभ्यन्तरसंस्थिततत्तत्क्षेत्रस्थबाहुकोटभुवः । खप्रतिबाहुसमेता भक्तास्तत्क्षेत्रगणनयान्योन्यम् ॥ ९॥ गुणिताश्च वेधगुणिताः कान्तिकसंज्ञगणितं स्यात् । तद्बाह्यान्तरसंस्थिततत्तत्क्षेत्रे फलं समानीय ॥ १० ॥ संयोज्य सङ्ख्ययाप्तं क्षेत्राणां वेधगणितं च । औण्ड्रफलं तत्फलयोर्विशेषकस्य त्रिभागेन ।। संयुक्तं कर्मान्तिकफलमेव हि भवति सूक्ष्मफलम् ॥ ११॥ अत्रोद्देशकः । समचतुरश्रा वापी विंशतिरुपरीह षोडशव तले। वेधो नव किं गणितं गणितविदाचक्ष्व मे शीघ्रम् ।। १२ ।। वापी समत्रिबाहुविंशतिरुपरीह षोडशैव तले । वेधो नव किं गणितं कर्मान्तिकमौण्डुमपि च सूक्ष्मफलम् ।। १३ ॥ समवृत्तासी वापी विंशतिरुपरीह षोडशैव तले । वेषो द्वादश दण्डाः किं स्यात्कर्मान्तिकौण्डूसूक्ष्मफलम् ॥ १४ ॥ आयतचतुरश्रस्य त्वायामप्पष्टिरेव विस्तारः । हादश मुरवे तलेऽधं वेधोऽष्टौ किं फलं भवति ॥ १५ ॥ नवतिरशीतिः सप्ततिरायामश्चोर्ध्वमध्यमूलेषु । विस्तारो द्वात्रिंशत् षोडश दश सप्त वेधोऽयम् ।। १५ ।। व्यासः षष्टिर्वदने मध्ये त्रिंशत्तले तु पञ्चदश । समवृत्तस्य च वेधः षोडश किं तस्य गणितफलम् ॥ १७ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy