SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सप्तमः खातव्यवहारः, सर्वामरेन्द्रमकटार्चितपादपीठं सर्वज्ञमव्ययमचिन्त्यमनन्तरूपम् । भव्यप्रजासरसिजाकरबालभानु भक्त्या नमामि शिरसा जिनवर्धमानम् ॥ १ ॥ क्षेत्राणि यानि विविधानि पुगेदितानि तेषां फलानि गुणितान्यवगाहनानि (नेन) । कर्मान्तिकौण्ड्रफलसूक्ष्मविकल्पितानि वक्ष्यामि सप्तममिदं व्यवहाररवातम् ॥ २ ॥ सूक्ष्मगणितम्. अत्र परिभाषाश्लोकः-- हस्तघने पांसूनां द्वात्रिंशत्पलशतानि पूर्याणि । उत्कीर्यन्ते तस्मात् षट्विंशत्पलश नानीह ॥ ३ ॥ खातगणितफलानयनसूत्रम् --- क्षेत्रफलं वेधगुणं समरवाने व्यावहारिकं गणितम् । मुरवतलयुतिदलमय सत्सङ्ख्याप्तं स्यात्समीकरणम् ॥ ४ ॥ अत्राशकः. समचतुर श्रस्याष्टी बाहुः प्रतिबाहुकश्च वेधश्च । क्षेत्रस्य वातगणितं समवाते किं भवेदत्र ॥ ५॥ त्रिभुजस्य क्षेत्रस्य द्वात्रिंशद्वाहकस्य वेधे तु । षट्त्रिंशदृष्टास्ते षडलान्यस्य किं गांणतम् ॥ ६॥ साष्टशतव्यासस्य क्षेत्रस्य हि पत्रषष्टिसहितशतम् । वेधो उत्तस्य त्वं समरवाते किं फलं कथय ॥ ७ ॥ आयतचतुरश्रस्य व्यासः पञ्चायविंशतिर्बाहुः । षष्टिवैषोऽष्टशतं कथयाशु समस्य वातस्य ॥ ८ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy