SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 104 गणितसारसहः . पुनरपि इष्टाद्युत्तरपदवर्गसङ्कलितानयनसूत्रम्-- द्विगुणैकोनपदोत्तरकृतिहतिरेकोनपदहताङ्गहता । व्येकपदादिचयाहतिमुखकृतियुक्ता पदाहता सारम् ॥ २९९ ॥ अत्रोद्देशकः । त्रीण्यादिः पञ्च चयो गच्छ: पञ्चास्य कथय कृतिचितिकाम् । पश्चादिस्त्रीणि चयो गच्छः सप्तास्य का च कृतिचितिका ॥ ३०० ॥ घनसङ्कलितानयनसूत्रम् ---- गच्छार्धवर्गराशी रूपाधिकगच्छवर्गसङ्गणितः । घनसङ्कलितं प्रोक्तं गणितेऽस्मिन् गणिततत्वज्ञैः ॥ ३०१ ॥ अत्रोद्देशकः । षण्णामष्टानामपि सप्तानां पञ्चविंशतीनां च । षट्पञ्चाशन्मिश्रितशतद्दयस्यापि कथय घनपिण्डम ॥ ३०२ ।। इष्टाद्युत्तरगच्छघनसङ्कलितानयनसूत्रम ... चित्यादिहतिमरवचयशेषघ्ना प्रचयनिम्नचितिवर्गे । आदौ प्रचयादूने विद्युता युक्ताधिके तु घनचितिका ॥ ३०३ ॥ अत्रोद्देशकः । आदिस्त्रयश्चयो द्वौ गच्छ: पञ्चास्य घनचितिका । पश्चादिस्सप्तचयो गच्छप्पट का भवेच्च घनचितिका ॥ ३०४ ॥ सङ्कलितसङ्कलितानयनसूत्रम् - द्विगुणैकोनपदोत्तरकृतिहतिरङ्गाहता चयार्धयुता । आदिचयाहतियुक्ता व्येकपदघ्नादिगुणितेन || सैकप्रभवेन युता पददलगुणितैव चितिचितिका ।। ३०५६ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy