SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः प्रस्तारयोगभेदस्य सूत्रम एकाद्यकोत्तरतः पदमूर्ध्वाधर्यतः क्रमोत्क्रमशः । स्थाप्य प्रतिलोमन्नं प्रतिलोमन्नेन भाजितं सारम् ॥ २१८॥ अत्रोद्देशकः । वर्णाश्चापि रसानां कषायतिक्ताम्लकटु कलवणानाम् । मधुररसेन युतानां भेदान् कथयाधुना गणक ॥ २१९॥ वजेन्द्रनीलमरकतविद्रुममुक्ताफलस्त रचितमालायाः । कति भेदा युतिभेदात् कथय सरवे सम्यगाशु त्वम् ।। २२०॥ केतक्यशोकचम्पकनीलोत्पलकुसुमरचितमालायाः । कति भेदा युतिभेदात्कथय सखे गणिततत्त्वज्ञ ॥ २२१ ।। ज्ञाताज्ञातलाभैर्मूलानयनसूत्रम्--- लाभोनामश्रराशेः प्रक्षेपकतः फलानि संसाध्य । तेन हृतं तल्लब्धं मूल्यं त्वज्ञातपुरुषस्य ॥ २२२ ।। अत्रोद्देशकः । समये केचिद्वणिजस्त्रयः क्रयं विक्रयं च कुरिन् । प्रथमस्य षट् पुराणा अष्टौ मूल्यं द्वितीयस्य ॥ २२३ ।। न ज्ञायते तृतीयस्य व्याप्तिस्तै रैस्तु षण्णवतिः । अज्ञातस्यैव फलं चत्वारिंशद्धि तेनाप्तम् ॥ २२४ ॥ कस्तस्य प्रक्षेपो वणिजोरुभयोर्भवेच्च को लाभः । प्रगणय्याचक्ष्व सरवे प्रक्षेपं यदि विजानासि ॥ २२५ ॥ भाटकानयनसूत्रम् भरभृतिगतगम्यहतिं त्यक्त्वा योजनदलघमारकृतेः । तन्मूलोनं गम्यच्छिन्नं गन्तव्यभाजितं सारम् ।। २२६ । Mund Budd त here; metrically it is faulty.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy