SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 02 मिश्रकव्यवहारः खदृढक्षयेण वर्णी प्रकल्पयेत्प्राग्वदेव यथा। एवं तवययोरप्युभयं साम्यं फलं भवेद्यदि चेत् ।। २१०।। प्राक्कल्पनेष्टवो गुलिकाभ्यां निश्चयौ भवतः । नो चेत्प्रथमस्य तदा किञ्चिन्न्यूनाधिको क्षयौ कृत्वा ॥ २११ ।। तत्क्षयपूर्वक्षययोरन्तरिते शेषमत्र संस्थाप्य । त्रैराशिकविधिलब्धं वर्णी तेनोनिताधिको स्पष्टौ॥ २ १२ ॥ अत्रोद्देशकः । वर्णपरीक्षकवणिजौ परस्परं याचिती ततः प्रथमः । अर्धं प्रादात् तामपि गुलिकां स्वसुवर्ण आयोज्य ॥ २१३ ।' वर्णदशकं करोमीत्यपरोऽवादीत् त्रिभागमात्रतया। लब्धे तथैव पूर्ण द्वादशवर्ण करोमि गुलिकाभ्याम् ।। २१४ ।। उभयोः सुवर्णमाने वर्णी सविन्त्य गणिततत्त्वज्ञ । सौवर्णगणितकुशलं यदि तेऽसि निगद्यतामाशु ॥ २१५।। इति मिश्रकव्यवहारे सुवर्णकुट्टीकारः समाप्तः ॥ विचित्रकुट्टीकारः। इतः परं मिश्रकव्यवहार विचित्रकुटीकारं व्याख्यास्यामः । सत्यानृतसूत्रम् पुरुषाः सैकेष्टगुणा द्विगुणेष्टोना भवन्त्यमत्यानि । पुरुषकृतिस्तैरूना सत्यानि भवन्ति वचनानि ।। २१६ ॥ अत्रोद्देशकः। कामुकपुरुषाः पञ्च हि वेश्यायाश्च प्रियास्त्रयस्तत्र । प्रत्येकं सा बृते त्वमिष्ट इति कानि सत्यानि ॥ २१७ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy