SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 92 गणितसारसङ्ग्रहः एतेषां वर्णानां पृथक् पृथक वर्णमानं किम् ॥ २०१ ॥ विनिमयगुणवर्णकनकलाभानयनसूत्रम् वर्णनवर्णयुतिहृतगुणयतिमूलक्षयनरूपोनेन। आप्तं लब्धं शोध्यं मूलधनाच्छेषवित्तं स्यात् ।। २०२ ।। तल्लब्धमूलयोगाद्विनिमयगुणयोगभाजितं लब्धम्। प्रक्षेपकेण गुणितं विनिमयगुणवर्णकनकं स्यात् ।। २०३ ।। अत्रोद्देशकः। कश्चिद्वणिक् फलार्थी षोडशवर्णं शतद्वयं कनकम् । यत्किचिद्विनिमयकृतमेकाद्यं द्विगुणितं यथा क्रमशः।। २०४॥ द्वादशवसुनवदशकक्षयकं लाभो द्विरग्रशतम्। शेषं किं स्याद्विनिमयकांस्तेषां चापि मे कथय । २०५॥ दृश्यसुवर्णविनिमयसुवर्णेमूलानयनसूत्रम् --- विनिमयवर्णेनाप्तं स्वांशं वेष्टक्षयनसंमिश्रात् । अंशैक्योनेनाप्तं दृश्यं फलमत्र भवति मूलधनम् ।। २०६ ॥ अत्रोद्देशकः । वणिजः कंचित् षोडशवर्णकसौवर्णगुलकमाहृत्य । त्रिचतुःपञ्चमभागान् क्रमेण तस्यैव विनिमयं कृत्वा ।। २०७॥ द्वादशदशनववर्णैः संयुज्य च पूर्वशेषेण । मूलेन विना दृष्टं स्वर्णसहस्रं तु किं मूलम् ॥ २०८ ।। इष्टांशदानेन इष्टवर्णानयनस्य तदिष्टांशकयोः सुवर्णानयनस्य च सूत्रम अंशाप्तकं व्यस्तं क्षिप्त्वेष्टन्नं भवेत् सुवर्णमयी । सा गुलिका तस्या अपि परस्परांशाप्तकनकस्य ॥२०९ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy