SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-२८।२६ । ३० जीवस्य कर्मप्रदेशैः सह संश्लेषो बन्धः । “संवर" कर्मास्रवनिरोधसमर्थस्वसंवित्तिपरिणतजीवस्य शुभाशुभकर्मागमनसंवरणं संवरः । “णिजर" शुद्धोपयोगभावनासामर्थ्येन नीरसीभूतकर्मपुद्गलानामेकदेशगलनं निर्जरा । "मोक्खा" जीवपुद्गलसंश्लेषरूपबन्धस्य विघटने समर्थः स्वशुद्धात्मोपलब्धिपरिणामो मोक्ष इति । “सपुण्णपावा जे" पुण्यपापसहिता ये "ते वि समासेण पभणामो” यथा जीवाजीवपदार्थों व्याख्याता पूर्व तथा तानप्यास्रवादिपदार्थान् समासेन संक्षेपेण प्रभणामो वयं, ते च कथंभूताः “जीवाजीवविसेसा" जीवाजीवविशेषाः । विशेषा इत्यस्य कोऽर्थः पर्यायाः । चैतन्या अशुअपरिगाभा जीवन्ध, अचेतनाः कर्मपुद्गलपर्याया अजीवस्येत्यर्थः । एवमधिकारसूत्रगाथा गता ॥२८॥ अथ गाथात्रयेणास्रवव्याख्यानं क्रियते, तत्रादौ भावास्रवद्रव्यास्रवस्वरूपं सूचयति । ___ व्याख्या। "आसवदि जेण कम्मं परिणामेणप्पणो स विण्णेओ भावासवो' आस्रवति कर्म येन परिणामेनात्मनः स विज्ञेयो भावात्रवः । कर्मास्रवनिर्मूलनसमर्घशुद्धात्मभावनाप्रतिपक्षभूनेन येन परिणामेनास्रवति कर्म कस्यात्मनः स्वस्य स परिणामो भावास्रवो विज्ञेयः। स च कथंभूतः “जिणुत्तो" जिनेन वीतरागसर्वज्ञेनोक्तः । “कम्मासवणं परो होदि" कर्मास्रवणं परो भवति ज्ञानावरणादिव्यकर्मणामास्रवणमागमनं परः, पर इति कोऽर्थः-भावानवादन्यो भिन्नो भावास्रव निमित्तेन तैलमृक्षितानां भून्निनमागम इव द्रव्यास्रवो भवतीति । ननु "आस्रवति येन कर्म" तेनैव पदेन द्रव्यास्रवो लब्धः, पुनरपि कर्मास्रवणं परो भवतीति द्रव्यास्रवव्याख्यानं किमर्थमिति यदुक्तं त्वया तन्न । येन परिणामेन किं भवति आस्रवति कर्म तत्परिणामस्य सामर्थ्य दर्शितं न च द्रव्यास्रवव्याख्यानमिति भावार्थः ॥२६॥ अथ भावास्रवस्वरूपं विशेषेण कथयति । व्याख्या । "मिच्छत्ताविरदिपमादजोगकोहादो" मिथ्यात्वाविरतिप्रमादयोगक्रोधादयः । अभ्यन्तरे वीतरागनिजात्मतत्त्वानुभूतिरुचिविषये विपरीताभिनिवेशजनकं बहिर्विषये तु, परकीयशुद्धात्मतत्त्वप्रभृतिसमस्तद्रव्येषु विपरीताभिनिवेशोत्पादकं च मिथ्यात्वं भण्यते । अभ्यन्तरे निजपरमात्मस्वरूपभाव
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy