SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ३५ द्रव्यसंग्रहवृत्तिः । गाथा-२८ चाववन्धपापपदार्थत्रयस्य कर्ता भवति । क्वापि काले पुनर्मन्दमिथ्यात्वमन्दकषायोदयं सति भोगाकाङ क्षादिनिदानबन्धन भाविकाले पापानुबन्धिपुण्यपदार्थस्यापि कर्ता भवति । यस्तु पूर्वोक्तबहिरात्मनो विलक्षण: सम्यग्दृष्टिः स संवरनिर्जरामोक्षपदार्थत्रयस्य कर्ता भवति । रानादिविभावरहिनपरममामायिक यदा स्थातु समर्थो न भवति तदा विषयकषायोत्पन्नदुनिवञ्चनार्थ संसारस्थितिच्छेदं कुर्वन् पुण्यानुवन्धितीर्थकरनामप्रकृत्यादिविशिष्टपुण्यपदार्थस्य कर्ता भवति । कर्तृत्वविषय नयविभागः कथ्यते । मिथ्यादृष्टेर्जीवस्य पुद्गलद्रव्यपर्यायरूपाणामास्रवबन्धपुण्यपापपदार्थानां कर्तृत्वमनुपचरितासातव्यवहारण, जीवभावपर्यायरूपाणां पुनरशुद्धनिश्चयनयनेति । सम्यग्दृष्टेस्तु संवरनिर्जरामोक्षपदार्थानां द्रव्यरूपाणां यत्क त्वं तदप्यनुचरितासद्भूतव्यवहारण, जीवभावपर्यायरूपाणां तु विवक्षितैकदेशशुद्धनिश्चयनयनेति । परमशुद्धनिश्चयन तु "ण वि उप्पज्जइ, ण विमरइ, बंधु न मोक्खु करेइ। जिउ परमच्छे जोइया, जिणवरु एम भणेइ इति ।” वचनाद्वन्धमोक्षौ न स्तः । स च पूर्वोक्तविवक्षितैकदेशशुद्धनिश्चय आगमभाषया कि भण्यते--स्वशुद्धात्मसम्यकश्रद्धानज्ञानानुचरणरूपेण भविष्यतीति भव्यः, एवंभूतस्य भब्यत्वसंज्ञस्य पारिणामिकभावस्य संबन्धिनी व्यक्तिर्भण्यते। अध्यात्मभाषया पुन यशनिम्पद्धपानिमामिकभावविषये भावना भण्यते, पर्यायनामान्तरेण निर्विकल्पसमाधि शुद्धोपोगादिकं वेति । यत एव भावना मुक्तिकारण तत एव शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानभावनारूपो न भवति । कस्मादिति चेत्-ध्यानभावनापर्यायो विनश्वरः स च द्रव्यरूपत्वादविनश्वर इति । इदमत्र तात्पर्य-मिथ्यात्वरागादिविकल्पजालरहितनिजशुदात्मभावनोत्पन्नसहजानन्दैकलक्षणसुखसंवित्तिरूपा च भावना मुक्तिकारण भवति । तां च कोऽपि जनः केनापि पर्यायनामान्तरेण भणतीति । एवं पूर्वानप्रकारेणानेकान्तब्याख्यानेनानवबन्धपुण्यपापपदार्थाः जीवपुद्गलसंयोगपरिणामरूपविभावपर्यायेणोत्पद्यन्ते । संवरनिर्जरामोक्षपदार्थाः पुनर्जीवपुद्गलसंयोगपरिणामविनाशोत्पन्नेन विवक्षितस्वभावपर्यायेणेति स्थितम् ॥ तद्यथा व्याख्या । "आसव" निरास्रवस्वसंवित्तिविलक्षणशुभाशुभपरिणामेन शुभाशुभकर्मागमनमास्रवः । "बंधण" वन्धातीतशुद्धात्मोपलम्भभावनाच्युत
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy