SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३० । ३१ नोत्पन्नपरमसुखामृतरतिविलक्षणा बहिर्विषये पुनखतरूपाचेत्यविरतिः । अभ्यन्तरे निष्प्रमादशुद्धात्मानुभूतिचलनरूप: बहिर्विषये तु मूलोत्तरगुणमलजनकश्चेति प्रमादः । निश्चयेन निष्क्रियस्यापि परमत्मानो व्यवहारेण वीर्यान्तरायक्षयोपशमोत्पन्नो मनोवचनकायवर्गणावलम्बन: कर्मादानहेतुभूत आत्मप्रदेशपरिस्पन्दो योग इत्युच्यते । अभ्यन्तरे परमोपशममूर्त्तिकेवलज्ञानाद्यनन्तगुणस्वभावपरमात्मस्वरूपक्षोभकारकः बहिर्विषये तु परेषां संबन्धित्वेन क्रूरत्वाद्यावेशरूपाः क्रोधादयश्चेत्युक्तलक्षणाः पञ्चास्रवाः "अथ' अथो "विण्णेया" विज्ञेया ज्ञातव्याः । कतिभेदास्ते “पण पण पणदश तिय चदु कमसा भेदा दु" पञ्चपञ्चपञ्चदशत्रिचतुर्भेदाः क्रमशो भवन्ति पुनः । तथाहि “एयंत वुद्धदरसी विवरीओ बंभतावसो विणओ । इंदो विय संसइदो मक्कडिओ चैव अण्णाणी इति गाथाकथितलक्षणं पञ्चविधं मिथ्यात्वम् । हिंसानृतस्ते'याब्रह्मपरिग्रहाकाङ्क्षारूपेणाविरतिरपि पञ्चविधा । अथवा मनःसहितपञ्चेन्द्रियप्रवृत्तिपृथिव्यादिषटकायविराधनाभेदेन द्वादशविधा । “विकहा तहय कसाया इंदिय णिहाय तहय पणयो य। चदु चदु पणमेगेगं हुंति पमादाहु पण्णरसा ।" इति गाथाकथितक्रमेण पञ्चदश प्रमादाः । मनोवचनकायव्यापारभेदेन त्रिविधा योगः, विस्तारेण पञ्चदशभेदो वा। क्रोधमानमायालोभभेदेन कषायाश्चत्वारः, कषायनोकषायभेदेन पञ्चविंशतिविधा वा। एते सर्वे भेदा:कस्य संबन्धिनः “पुव्वस्स" पूर्वसूत्रोदितभावानवस्येत्यर्थः ॥३०॥ अथ द्रव्यास्रवस्वरूपमुद्योतयति । व्याख्या । “णाणावरणादीणं" सहजशुद्धकेवलज्ञानमभेदेन केवलज्ञानाद्यनन्तगुणाधारभूतं ज्ञानशब्दवाच्यं परमात्मानं वा आवृणोतीति ज्ञानावरणं, तदादिर्येषां तानि ज्ञानावरणादीनि तेषां ज्ञानावरणादीनां "जोग्गं" योग्यं “जं पुग्गलं समासवदि" स्नेहाभ्यक्तशरीराणां धूलिरेणुसमागम इव निष्कषायशुद्धात्मसंवित्तिच्युतजीवानां कर्मवर्गणारूपं यत्पुद्गलद्रव्यं समास्रवति “दव्वासवी स णेो" द्रव्यास्रवः स विज्ञेयः । "अणेयभेो" स च ज्ञानदर्शनावरणीयवेदनीयमोहनीयायुर्नामगोत्रान्तरायसंज्ञानामष्टमूलप्रकृतीनां भेदेन, तथैव "पण णव दु अट्ठबीसा चउ तियणवदीय दोण्णि पंचेव। बावण्णहीण बियसयपयडिविणासेण होति ते सिद्धा।” इति गाथाकथितक्रमेणाष्टचत्वारिंशद
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy