SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १३ द्रव्यसंग्रहवृत्तिः । गाथा-१२।१३ एकेन्द्रियास्तेऽपि यदष्टपत्रपद्माकारं द्रव्यमनस्तदाधारण शिक्षालापोपदेशादिग्राहकं भावमनश्चेति तदुभयाभावादसंज्ञिन एव । “सव्वे पजत्त इदरा य” एवमुक्तप्रकारेण संझ्यसंज्ञिरूपेण पञ्चेन्द्रियद्वय द्वित्रिचतुरिन्द्रियरूपेण विकलेन्द्रियत्रयं बादरसूक्ष्मरूपेणैकेन्द्रियद्वय चेति सप्तभेदाः। “आहारसरीरिदिय पज्जत्ती आणपाणभासमणाः । चत्तारिपंचछप्पियइंदियवियलसण्णिसण्णीणं ।" १ । इति गाथाकथितक्रमण ते सर्वे प्रत्येकं स्वकीयस्वकीयपर्याप्तिसंभवात्सप्त पर्याप्ताः सप्तापर्याप्ताश्च भवन्ति । एवं चतुर्दशजीवसमासा ज्ञातव्यास्तेषां च "इंदियकाया ऊणिय पुण्णापुण्णे सुपुण्णगे आणा । वेइंदियादि पुण्णे सुवचिमोसरण पुरणेय । १ । दस सरणीणां पाणा सेसे गूणंति मण्णवे ऊणा । पज्जत्ते मिदरेसु पसत्तडुगे सेसगे गूणां । २।” इति गाथाद्वयकथितक्रमेण यथासंभवमिन्द्रियादिदशप्राणाश्च विज्ञेयाः । अत्रैतेभ्यो भिन्न निजशुद्धात्मतत्त्वमुपादेयमिति भावार्थः ॥ १२॥ __ अथ शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्याधि कनयन शुद्धबुद्धकस्वभावा अपि जीवाः पश्चादशुद्धनयेन चतुर्दशमार्गणास्थानचतुर्दशगुणस्थानसहिता भवन्तीति प्रतिपादयति । . व्याख्या । “मग्गणगुणठाणेहि य हवंति तह विरणेया" यथा पूर्वसूत्रोदितचतुर्दशजीवसमासैर्भवन्ति मार्गणागुणस्थानैश्च तथा भवन्ति संभवन्तीति विज्ञेया ज्ञातव्याः । कतिसंख्योपेतैः "चउदसहि', प्रत्येकं चतुर्दशभिः । कस्मात् "अशुद्धणया" अशुद्धनयात् सकाशात् । इत्थंभूताः के भवन्ति । "संसारी" सांसारिजीवाः । “सव्वे सुद्धा हु सुद्धणया' त एव सर्वे संसारिणः शुद्धाः सहजशुद्धज्ञायकैकस्वभावाः । कस्मात् शुद्धनयात् शुद्धनिश्चयनयादिति । अघागमप्रसिद्धगाथाद्वयेन गुणस्थाननामानि कथयति । “मिच्छो सासणमिस्सो अविरदसम्मोय देसविरदोय । विरयापमत्त इयरो अपुब्ब अणियट्ठि सुहमोय । उवसंतखीणमोहो सजोगकेवलिजिणो अजोगी य । चउदसमुणठाणाणि य कमेण सिद्धाय णायव्वा ।" इदानीं तेषामेव गुणस्थानानां प्रत्येकं संक्षेपलक्षणं कथ्यते । तथाहि सहजशुद्धकेवलज्ञानदर्शनरूपाखण्डैकप्रत्यक्षप्रतिभासमयनिजपरमात्मप्रभृतिषड्द्रव्यपञ्चास्तिकायसप्रतत्त्वनवपदार्थेषु मूढत्रयादिपञ्चविंशतिमलरहितं वीतरागसर्वज्ञप्रणोतनयविभागेन यस्य श्रद्धानं नास्ति
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy