SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १२ द्रव्यसंग्रहवृत्तिः । गाथा-११ । १२ मत्वनिमित्तेन देहं गृहीत्वा संसारे परिभ्रमति तेन कारणेन देहादिममत्वं त्यक्त्वा निर्मोहनिजशुद्धात्मनि भावना कर्तव्येति । एवं स्वदेहमात्रव्याल्यानेन गाथा गता ॥ १० ॥ अतः परं गाथात्रयेण नयविभागेन संसारिजीवस्वरूपं तदवसाने शुद्धजीवस्वरूपं च कथयति । तद्यथा व्याख्या । “होति" इत्यादिव्याख्यानं क्रियते । “ होति " अतीन्द्रियामूर्तनिजपरमात्मस्वभावानुभूतिजनितसुखामृतरसस्वभावमलभमानास्तुच्छमपीन्द्रियसुखमभिलषन्ति छद्मस्थाः, तदासक्ताः सन्त एकेन्द्रियादिजीवानां घातं कुर्वन्ति तेनोपार्जितं यत्रसस्थावरनामकर्म तदुदयेन जीवा भवन्ति । कथंभूता भवन्ति "पुढविजलतेउवाऊवणप्फदी विविहथावरे इंदी” पृधिव्यप्रेजोवायुवनम्पतयः कतिसंख्योपेता विविधा आगमकथितस्वकीयस्वकीयान्तर्भेदैर्बहुविधाः स्थावरनामकर्मोदयेन स्थावरा एकेन्द्रियजातिनामकर्मोदयेन स्पर्शनेन्द्रिययुक्ता एकेन्द्रिया न केवलमित्थंभूताः स्थावरा भवन्ति । “विगतिगचदुपंचक्खा तसजीवा” द्वित्रिचतु:पञ्चाक्षात्रसनामकर्मोदयेन त्रसजीवा भवन्ति । ते च कथंभूताः “संखादी" शङ्खादयः स्पर्शनरसनेन्द्रियद्वययुक्ताः शङ्खशुक्तिक्रिम्यादयो द्वीन्द्रियाः, स्पर्शनरसनघ्राणेन्द्रिययुक्ताः कुन्थुपिपीलिकायूकामत्कुणादयस्त्रीन्द्रियाः, स्पर्शनरसनघ्राणचक्षुरिन्द्रियचतुष्टययुक्ता दंशमशकमक्षिकाभ्रमरादयश्चतुरिन्द्रियाः, स्पर्शनरसनघाणचतुःश्रोत्रेन्द्रियपञ्चयुक्ता मनुष्यादयः पञ्चेन्द्रिया इति । अयमत्रार्थ:-विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मस्वरूपभावनोत्पन्नपारमार्थिकसुखमलभमाना इन्द्रियसुखासक्ता एकेन्द्रियादिजीवानां वधं कृत्वा त्रसस्थावरा भवन्तीत्युक्तं पूर्व तस्मात्त्रसस्थावरोत्पत्तिविनाशार्थ तत्रैव परमात्मनि भावना कर्त्तव्येति ॥११॥ तदेव त्रसस्थावरत्वं चतुर्दशजीवसमासरूपेण व्यक्तीकरोति । व्याख्या-"समणा अमणा" समस्तशुभाशुभविकल्पातीतपरमात्मद्रव्यविलक्षणं नानाविकल्पजालरूपं मनो भण्यते तेन सह ये वर्तन्ते ते समनस्काः , तद्विपरीता अमनस्का असंज्ञिनः “ऐया” ज्ञेया ज्ञातव्याः । “पंचेंदिय" ते संज्ञिनस्तथैवासंज्ञिनश्च पञ्चेन्द्रियाः। एवं संश्यसंज्ञिपञ्चेन्द्रियास्तियञ्च एव, नारकमनुष्यदेवाः संज्ञिपञ्चेन्द्रिया एव । “णिम्मणा परे सब्बे" निर्मनस्काः पञ्चेन्द्रियात्सकाशादपरे सर्वे द्वित्रिचतुरिन्द्रिया: "बादरसुहमे इंदी" बादरसूक्ष्मा
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy