SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १४ द्रव्यसंग्रहवृत्तिः । गाथा-१३ स मिथ्यादृष्टिर्भवति।१। पापागरेखासदशानन्तानुवन्धिकोधमानमायालोभान्यतरोदयेन प्रथममौपशमिकसम्यक्त्वात्पतितो मिथ्यात्वं नाद्यापि गच्छतीत्यन्तरालवर्ती सासादनः ।२। निजशुद्धात्मादितत्त्वं वीतरागसर्वज्ञप्रणीतं परप्रणीतं च मन्यते यः स दर्शनमोहनीयभेदमिश्रकर्मोदयेन दधिगुडमिश्रभाववत् मिश्रगुणस्थानवर्ती भवति ।३। अथ मतं येन केनाप्येकेन मम देवेन प्रयोजनं तथा सर्वे देवा वन्दनीया न च निन्दनीया इत्यादिवैनयिकमिथ्यादृष्टिः संशयमिथ्यादृष्टिा तथा मन्यते, तेन सह सम्यग्मिथ्यादृष्टेः को विशेष इति, अत्र परिहारः-"स सर्वदेवेषु सर्वसमयेषु च भक्तिपरिणामेन येन केनाप्येकेन मम पुण्यं भविष्यतीति मत्वा संशयरूपेण भक्तिं कुरुते निश्चयो नास्ति । मिश्रस्य पुनरुभयत्र निश्चयोऽस्तीति विशेषः । स्वाभाविकानन्तज्ञानाद्यनन्तगुणाधारभूतं निजपरमात्मद्रव्यमुपादेयम् , इन्द्रियसुखादिपरद्रव्यं हि हेयमित्यर्हत्सर्वज्ञप्रणीतनिश्चयव्यवहारनयसाध्यसाधकभावेन मन्यते परं किन्तु भूमिरेवादिननशक्रोधादिदिनीयकषायोदयेन मारणनिमित्तं तलवरगृहीततस्करवदात्मनिन्दादिसहित: सन्निन्द्रियसुखमनुभवतीत्यविरतसम्यग्दृष्टेर्लक्षणम् ।४। यः पूर्वोक्तप्रकारेण सम्यग्दृष्टिः सन् भूमिरेखादिसमानक्रोधादिद्वितीयकषायोदयाभावे सत्यभ्यन्तरे निश्चयनयेनैकदेशरागादिरहितस्वाभाविकसुखानुभूतिलक्षणेषु बहिर्विषये पुनरेकदेशहिंसानृतास्तेयाब्रह्मपरिग्रहनिवृत्तिलक्षणेषु "दंसणवयसामाइयपोसहसचित्तराइभत्तेय । बंभारंभपरिग्गह अणुमण उद्दिढ देशविरदेदे ।” इति गाथाकथितैकादशनिलयेषु वर्त्तते स पञ्चमगुणस्थानवर्ती श्रावको भवति । ५ । स एव सदृष्टिधूलिरेखादिसदृशक्रोधादितृतीयकषायोदयाभावे सत्यभ्यन्तरे निश्चयनयेन रागाद्युपाधिरहितस्वशुद्धात्मसंवित्तिसमुत्पन्नसुखामृतानुभवलक्षणेषु बहिर्विषयेषु पुनः सामस्त्येन हिंसानृतस्तेयब्रह्मपरिग्रहनिवृत्तिलक्षणेषु च पञ्चमहाव्रतेषु वर्त्तते यदा तदा दुःस्वप्नादिव्यक्ताव्यक्तप्रमादसहितोऽपि षष्ठगुणस्थानवी प्रमत्तसंयतो भवति । ६ । स एव जलरेखादिसदृशसंज्वलनकषायमन्दोदये सति निष्प्रमादशुद्धात्मसंवित्तिमलजनकव्यक्ताव्यक्तप्रमादरहितः सन्सप्तमगुणस्थानवर्ती अप्रमत्तसंयतो भवति । ७ । स एवातीतसंज्वलनकषायमन्दोदये सत्यपूर्वपरमालादैकसुखानुभूतिलक्षणापूर्वकरणोपशमकक्षपकसंज्ञोऽष्टमगुणस्थानवर्ती भवति । ८. दृष्टश्रुतानुभूतभोगाकाङ्क्षादिरूपसमस्तसङ्कल्पविकल्परहितनिजनिश्चलपर
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy