SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-१० ११ तीनवेदनानुभवान्मूलशरीरमत्यक्त्वा आत्मप्रदेशानां वहिर्निर्गमनमिति वेदनासमुद्घातः । १। तीव्रकषायोदयान्मूलशरीरमत्यक्त्वा परस्य धातार्थमात्मप्रदेशानां बहिर्गमनमिति कषायसमुद्घातः । २ । मूलशरीरमपरित्यज्य किमपि विकर्तुमात्मप्रदेशानां बहिर्गमनमिति विक्रियासमुद्घातः । ३। मरणान्तसमये मूलशरीरमपरित्यज्य यत्र कुत्रचिद्वद्धमायुस्तत्प्रदेशं स्फुटितुमात्मप्रदेशानां बहिर्गमनमिति मरणान्तिकसमुद्घातः । ४ । स्वस्य मनोनिष्टजनक किञ्चित्कारणान्तरमवलोक्य समुत्पन्नक्रोधस्य संयमनिधानस्य महामुनेमूलशरीरमत्यज्य सिन्दूरपुञ्जप्रभो दीर्घत्वेन द्वादशयोजनप्रमाण: सूच्यंगुलसङ्घ येयभागमूलविस्तारो नवयोजनामविस्तारः काहलाकृतिपुरुषो वामस्कन्धान्निर्गस्य वामप्रदक्षिणेन हृदये निहितं विरुद्ध वस्तु भस्मसात्कृत्य तेनैव संयमिना सह स च भस्म ब्रजति द्वीपायनवत्, असावशुभस्तेज:समुद्घातः, लोकं व्याधिदुर्भिक्षादिपीडितमवलोक्य समुत्पन्नकृपस्य परमसंयमनिधानस्य महर्षेमूलशरीरमत्यज्य शुभ्राकृतिः प्रागुक्तदेहप्रमाण: पुरुषो दक्षिणप्रदक्षिणेन व्याधिदुर्भिक्षादिकं स्फोटयित्वा पुनरपि स्वस्थाने प्रविशति, असौ शुभरूपस्तेज:समुद्घातः ।।समुत्पन्नपदपदार्थभ्रान्तः परमर्द्धिसंपनस्य महर्षेमूलशरीरमत्यज्य शुद्धस्फटिकाकृतिरेकहस्तप्रमाणः पुरुषो मस्तकमध्यान्निर्गत्य यत्र कुत्रचिदन्तमुहूर्त्तमध्ये केवलज्ञानिनं पश्यति तदर्शनाच्च स्वाश्रयस्य मुनेः पदपदार्थनिश्चयं समुत्पाद्य पुनःस्वस्थाने प्रविशति, असावाहारसमुद्घातः।६। सप्तमः केवलिनां दण्डकपाटप्रतरपूरण: सोऽयं केवलिसमुद्घातः ।७। नयविभाग: कथ्यते । “ववहारा" अनुपचरितासद्भूतव्यवहारनयात् “णिच्चयणयदो असंखदेसो वा" निश्चयनयतो लोकाकाशप्रमितासंख्येयप्रदेशप्रमाणः वा शब्देन तु स्वसंवित्तिसमुत्पन्नकवलज्ञानोत्पत्तिप्रस्तावे ज्ञानापेक्षया व्यवहारनयेन लोकालोकव्यापकः न च प्रदेशापेक्षया नैयायिकमीमांसकसांख्यमतवत् । तथैव पञ्चेन्द्रियमनोविषयविकल्परहितसमाधिकाले स्वसंवेदनलक्षणबोधसद्भावेऽपि बहिर्विषयेन्द्रियबोधाभावाजडः नच सर्वथा सांख्यमतवत् । तथा रागादिविभावपरिणामापेक्षया शून्योऽपि भवति न चानन्तज्ञानाद्यपेक्षया बौद्धमतवत् । किञ्च अणुमात्रशरीरशब्देनात्र उत्सेधघनांगुलासंख्येयभागप्रमितं लब्ध्यपूर्णसूक्ष्मनिगोदशरीरं ग्राह्य न च पुद्गलपरमाणुः । गुरुशरीरशब्देन च योजनसहस्रपरिमाणं महामत्स्यशरीरं मध्यमावगाहेन मध्यमशरीराणि च । इदमत्र तात्पर्य देहम
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy