SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-६ । १० ___ अथ यद्यपि शुद्धनयेन निर्विकारपरमाह्लादैकलक्षणसुखामृतस्य भोक्ता तथाप्यशुद्धनयेन सांसारिकसुखदुःखस्यापि भोक्तात्मा भवतीत्याख्याति । ___ व्याख्या । “ववहारा सुहदुक्खं पुग्गल कम्मफलं पभुजेदि" व्यवहारात्सुखदुःखरूपं पुद्गलकर्मफलं प्रभुङ्क्ते । स कः कर्ता “आदा" आत्मा "णिच्चयणयदो चेदणभावं आदस्स' निश्चयनयतश्चेतनभावं भुङ्क्ते "खु" स्फुटं कस्य सम्बन्धिनमात्मनः स्वस्येति । तद्यथा-आत्मा हि निजशुद्धात्मसंवित्तिसमुद्भूतपारमार्थिकसुखसुधारसभोजनमलभमान उपचरितासद्भूतव्यवहारेणेष्टानिष्टपञ्चेन्द्रियविषयजनितसुखदुःखं भुङ्क्ते तवैवानुपचरितासद्भूतव्यवहारेणाभ्यन्तरे सुखदुःखजनक द्रव्यकर्मरूपं सातासातोदयं भुङ्क्ते । स एवाशुद्धनिश्चयनयेन हर्षविषादरूपं सुखदुःखं च भुङ्क्ते । शुद्धनिश्चयनयेन तु परमात्मस्वभावसम्यगश्रद्धानज्ञानानुष्टानोत्पन्नसदानन्दैकलक्षणं सुखामृतं भुत इति । अत्र यस्यैव स्वाभाविकसुखामृतस्य भोजनाभावादिन्द्रियमुग्वंभुवानः सन् संसारे परिभ्रमति तदेवातीन्द्रियसुखं सर्वप्रकारेणोपादेयमित्यभिप्रायः । एवं कर्ता कर्मफलं न भुत इति बौद्धमतनिषेधार्थ भोक्तृत्वव्याख्यानरूपेण सूत्रं गतम् ॥ ६॥ .... . . अथ निश्चयेन लोकप्रमितासंख्येयप्रदेशमात्रोपि व्यवहारेण देहमात्रो जीव इत्यावेदयति । . . व्याख्या। "अणुगुरुदेहपमाणो” निश्रयेन म्वदेहानिन्नम्य केवलज्ञानाद्यनन्तगुणाराशेरभिन्नम्य निजशुद्धात्मस्वरूपस्योपलब्धेरभावात्तथैव देहममत्वमूलभूताहारभयमैथुनपरिग्रहसंज्ञाप्रभृतिसमस्तरागादिविभावानामासक्तिसद्भावाच्च यदुपार्जितं शरीरनामकर्म तदुदये सति अणुगुरुदेहप्रमाणो भवति । स कः कर्ता "चेदा" चेतयिता जीवः । कस्मात् “उवसंहारप्पसप्पदो” उपसंहारप्रसर्पतः शरीरनामकर्मजनितविस्तारोपसंहारधर्माभ्यामित्यर्थः। कोऽत्र दृष्टान्तः, यथा प्रदीपो महद्भाजनप्रच्छादितस्तद्भाजनान्तरं सर्व प्रकाशयति लघुभाजनप्रच्छादितस्तद्भाजनान्तरं प्रकाशयति । पुनरपि कस्मात "असमुहदो" असमुद्घातात् वेदनाकषायविक्रियामरणान्तिकतैजसाहारककेवलिसंज्ञसप्रसमुद्घातवर्जनान । तथा चोक्तं सप्तसमुद्घातलक्षणम्- "वेयणकसायवेप्रोव्वियमारणांतिनो समुद्घादो। तेजाहारो छट्ठो सत्तमउ केवलीणं तु । १।” तद्यथा “मूलसरीरमच्छंडिय उत्तरदेहस्स जीवपिंडस्स । णिग्गमणं देहाटो हवदि समदघाटयं गााम |१||"
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy