SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-४।५ मुख्यवृत्त्या दर्शनोपयोगव्याख्यानं करोति । यत्र मुख्यत्वमिति वदति तत्र यथासंभवमन्यदपि विवक्षितं लभ्यत इति ज्ञातव्यम् । . . ___ व्याख्या--"उवओगो दुवियप्पो” उपयोगो द्विविकल्प: "दसण णाणं च" निवि कल्पकं दर्शनं सविकल्पकं ज्ञानं, च पुनः “दसणं चदुधा" दर्शनं चतुर्धा भवति "चक्खुअचकखू ओही दंसणमध केवलं णेयं” चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमथ अथो केवलदर्शनमिति विज्ञेयम् । तथाहि-आत्मा हि जगत्रयकालत्रयवर्तिसमस्तवस्तुमामान्यग्राहकसकलविमलकेवलदर्शनस्वभावस्तावत् पश्चादनादिकर्मबन्धाधीनः सन् चक्षुर्दर्शनावरणक्षयोपशमाहिरङ्गद्रव्येन्द्रियालम्बनाच्च मूर्तसत्तासामान्यं निर्विकल' संव्यवहारेण प्रत्यक्षमपि निश्चयेन परोक्षरूपेणैकदेशेन यत्पश्यति तच्चक्षुर्दर्शनम् । तथैव स्पर्शनरसनग्राणश्रोत्रेन्द्रियावरणक्षयोपशमत्वात्स्वकीयस्वकीयबहिरङ्गद्रव्येन्द्रियालम्बनाञ्च मूर्त सत्तासामान्य विकल्परहितं परोक्षरूपेणैकदेशेन यत्पश्यति तदचक्षुर्दर्शनम् । तथैव च मनइन्द्रियावरणक्षयोपशमात्सहकारिकारणभूताष्टदलपद्माकारद्रव्यमनोऽवलम्बनाच्च मूर्त्तामूर्त समस्तवस्तुगतसत्तासामान्य विकल्परहितं परोक्षरूपेण यत्पश्यति तन्मानसमचतुदर्शनम् । स एवात्मा यदवधिदर्शनावरणक्षयोपशमान्मूतवस्तुगतसत्तासामान्य निर्विकल्परूपेणैकदेशप्रत्यक्षेण यत्पश्यति तदवधिदर्शनम् । यत्पुन: सहजशुद्धसदानन्दैकापपरमात्मतत्त्वसंवित्तिप्राप्रिवलेन केवलदर्शनावरणक्षये सति मूर्त्तामूर्तसमस्तवस्तुगतसत्तासामाम्य विकल्परहितं सकलप्रत्यक्षरूपेणैकसमये पश्यति तटुपादेयभूतं क्षायिक केवलदर्शनं ज्ञातव्यमिति ॥४॥ · अथाष्टविकल्पं ज्ञानोपयोगं प्रतिपादयति।। व्याख्या-" णाणं अदृवियप्पं, ज्ञानमष्टविकल्पं भवति । “मदिसुदओही अण्णाणणाणाणि" अत्राष्टविकल्पमध्ये मतिश्रुतावधयो मिथ्यात्वोदयवशाद्विपरीताभिनिवेशरूपाण्यज्ञानानि भवन्ति, तान्येव शुद्धात्मादितत्त्वविषये विपरीताभिनिवेशरहितत्वेन सम्यग्दृष्टिजीवस्य सम्यग्ज्ञानानि भवन्ति । "मणपजय केवलमवि" मनःपर्ययज्ञानं केवलज्ञानमप्येवमष्टविधं ज्ञानं भवति, "पञ्चक्खपरोक्खभेयं च प्रत्यक्षपरोक्षभेदं च अवधिमनःपर्ययद्वयमेकदेशप्रत्यक्ष, विभङ्गावधिरपि देशप्रत्यक्ष, केवलज्ञानं सकलप्रत्यक्ष शेषचतुष्टयं परोक्षमिति । इतो विस्तार:- आत्मा हि निश्चयनयेन सकलविमलाखण्डैकप्रत्यक्षप्रतिभासमय
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy