SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३ स्वभावेनोद्ध्वगतिश्चेति । अत्र पदखण्डनारूपेण शब्दार्थः कथितः, शुद्धाशुद्धनयद्वयविभागेन नयार्थोऽप्युक्तः । इदानी मतार्थः कथ्यते । जीवसिद्धिश्चार्वाकं प्रति, ज्ञानदर्शनोपयोगलक्षणं नैयायिक प्रति, अमूर्तजीवस्थापनं भट्टचार्वाकद्वयं प्रति, कर्मकर्तृत्वस्थापनं सांख्यं प्रति, स्वदेहप्रमितिस्थापनं नैयायिकमीमांसकसांख्यत्रयं प्रति, कर्मभोक्तत्वव्याख्यानं बौद्धं प्रति, संसारस्थव्याख्यानं सदाशिवं प्रति, सिद्धत्वव्याख्यानं भट्टचार्वाकद्वयं प्रति, उद्ध्वगतिस्वभावकथनं माण्डलिकग्रन्थकारं प्रति, इति मतार्थो ज्ञातव्यः । आगमार्थः पुनः “अस्त्यात्मानादिबद्धः" इत्यादि प्रसिद्ध एव । शुद्धनयाश्रितं जीवस्वरूपमुपादेयं, शेष च हेयम् । इति हेयोपादेयरूपेण भावार्थोऽप्यवबोद्धव्यः । एवं शब्दनयमतागमभावार्थो यथासम्भवं व्याख्यानकाले सर्वत्र ज्ञातव्यः । इति जीवादिमवाधिकारसूचनसूत्रगाथा॥२॥ अतःपरं द्वादशगाघाभिर्नवाधिकारान विवृणोनि, तत्रादौ जीवस्वरूपं कथयति। व्याख्या-"तिकाले चदुपाणा" कालत्रये चत्वारः प्राणा भवन्ति । ते के "इंदिय बलमाउ आणपाणो य” अतीन्द्रियशुद्धचैतन्यप्राणात्प्रतिशत्रुपक्षभूतः क्षायोपशमिक इन्द्रियप्राणः, अनन्तवीर्यलक्षणबलप्राणादनन्तैकभागप्रमिता मनोवचनकायबलप्राणाः, अनाद्यनन्तशुद्धचैतन्यप्राणविपरीततद्विलक्षण: सादिः सान्तश्चायु:-प्राणः, उच्छवासपरावर्तोत्पन्नखेदरहितविशुद्धचित्प्राणाद्विपरीतसदृश आनपानप्राणः । “ववहारा सो जीवो" इत्थंभूतैश्चतुर्भिर्द्रव्यभावप्राणैर्यथासंभवं जीवति जीविष्यति जीवितपूर्वो वा यो व्यवहारनयात्स जीवः । द्रव्येन्द्रियादिद्रव्यप्राणा अनुपचरितासद्भू तव्यवहारण, भावेन्द्रियादिः क्षायोपशमिकभावप्राणाः पुनरशुद्धनिश्चयेन । सत्ताचैतन्यबोधादिः शुद्धभावप्राणाः निश्चयनयेनेति "णिच्चयणयदो दु चेदणा जस्स" शुद्धनिश्चयचयतः सकाशादुपादेयभूता शुद्धचेतना यस्य स जीवः, एवं वच्छक्खभवसारिच्छ, सम्गाणिरयपियराय । चुल्लयहंडिय पुणमडउ, नव दिळंता जाय ॥ १॥ इति दोहककथितनवदृष्टान्तैश्चार्वाकमतानुसारिशिष्यसंबोधनार्थ जीवसिद्धिव्याख्यानेन गाथा गता ॥३॥ अथ गाथात्रयपर्यन्तं ज्ञानदर्शनोपयोगद्वयं कथ्यते । तत्र प्रथमगाथायां
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy