SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५ केवलज्ञानरूपस्तावत् । स च व्यवहारेणानादिकर्मबन्धप्रच्छादितः सन्मतिज्ञानावरणीयक्षयोपशमाद्वीर्यान्तरायक्षयोपशमाच्च बहिरङ्गपञ्चेन्द्रियमनोऽवलम्बनाच्च मूर्त्तामूर्त वस्त्वेकदेशेन विकल्पाकारेण परोक्षरूपेण साव्यवहारिकप्रत्यक्षरूपेण वा यज्जानाति तत्क्षायोपशमिक मतिज्ञानम् । किञ्च छद्मस्थानां वीर्यान्तरायक्षयोपशमः केवलिनां तु निरवशेषक्षयः ज्ञानचारित्राद्युत्पत्ती सहकारी सर्वत्र ज्ञातव्यः । संव्यवहारलक्षणं कथ्यते-समीचीनो व्यवहारः संव्यवहारः । प्रवृत्तिनिवृत्तिलक्षण: संव्यवहारो भण्यते । संव्यवहारे भवं साव्यवहारिक प्रत्यक्षम् । यथा घटरूपमिदं मया दृष्टमित्यादि । तथैव श्रुतज्ञानावरणक्षयोपशमानोइन्द्रियावलम्बनाच प्रकाशोपाध्यायादिबहिरङ्गसहकारिकारणाच मूतमूर्तवस्तुलोकालोकव्याप्तिज्ञानरूपेण यदस्पष्टं जानाति तत्परोक्ष श्रुतज्ञानं भण्यते । किञ्च विशेष:-शब्दात्मकं श्रुतज्ञानं परोक्षमेव तावत्, स्वर्गापवर्गादिबहिविषयपरिच्छित्तिपरिज्ञानं विकल्परूपं तदपि परोक्ष', यत्पुनरभ्यन्तरे सुखदुःखविकल्परूपोऽहमनन्तज्ञानादिरूपोऽहमिति वा तदीषत्परोक्षम्, यच्च निश्चयभावश्रुतज्ञानं तच्च शुद्धात्माभिमुखसुखसंवित्तिस्वरूपं स्वसंवित्त्याकारेण सविकल्पमपीन्द्रियमनोजनितरागादिविकल्पजालरहितत्वेन निर्विकल्पम्, अभेदनयेन तदेवात्मशब्दवाच्यं वीतरागसम्यकचारित्राविनाभूतं केवलज्ञानापेक्षया परोक्षमपि संसारिणां क्षायिकज्ञानाभावात् क्षायोपशमिकमपि प्रत्यक्षमभिधीयते । अत्राह शिष्यः-"आद्ये परोक्ष मिति तत्त्वार्थसूत्रे मतिश्रुतद्वयं परोक्षं भणितं तिष्ठति कथं प्रत्यक्ष भवतीति। परिहारमाह-तदुत्सर्गव्याख्यानम् , इदं पुनरपवादव्याख्यानं, यदि तदुत्सर्गव्याख्यानं न भवति तर्हि मतिज्ञानं कथं तत्त्वार्थे परोक्षं भणितं तिष्ठति । तर्कशास्त्र सांव्यवहारिकं प्रत्यक्ष कथं जातम् । यथा अपवादव्याख्यानेन मतिज्ञानं परोक्षमपि प्रत्यक्षज्ञानं तथा स्वात्माभिमुखं भावश्रुतज्ञानमपि परोक्ष सत्प्रत्यक्ष भण्यते । यदि पुनरेकान्तेन परोक्ष भवति तर्हि सुखदुःखादिसंवेदनमपि परोक्ष प्राप्नोति, न च तथा । तथैव च स एवात्मा अवधिज्ञानावरणीयक्षयोपशमान्मूर्त वस्तु यदेकदेशप्रत्यक्षण सविकल्पंजानाति तदवधिज्ञानम् । यत्पुनर्मन:पर्ययज्ञानावरणक्षयोपशमाद्बीर्यान्तरायक्षयोपशमाच्च स्वकीयमनोऽवलम्वनेन परकीयमनोगतं मूर्त्तमर्थमेकदेशप्रत्यक्षण सविकल्पं जानाति तदिह मतिज्ञानपूर्वक मनःपर्ययज्ञानम् । तथैव निजशुद्धा
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy