SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०३ हेतुखण्डनपाण्डित्यम्। एतेषु दोषेषु न कोऽपि तावत् तल्लक्षणानीक्षणतः समस्ति ।। नासिद्धताकामुककुटिनीनां कटाक्षलक्षैरपि वीक्ष्यतेऽसौ । हेतुः सुनिर्णीतसुपक्षसाध्यधर्मे स्वनिर्णीतिपवित्रितो यत् ॥ विरुद्धतादुर्धरसिद्धसोकोत्तरीगरीयस्तरदोषदौष्ट्यम् । हेतुर्निधत्ते प्रतिपन्थिपक्षव्यावृत्तिमन्त्रो(मन्नो) वरिवर्त्यसौ यत् ॥ पक्षः प्रमाणान्तरबाध्यबाधां धत्ते न साध्यानुगसाधनेऽस्मिन् । तस्मान्न कालात्यया(य)तापदिष्टदोषोग्रदकरदौस्थ्यमास्ते ॥ न साधने सत्प्रतिपक्षदोषकथाप्रथामेति वृथाऽविमाना । तथाविधप्रत्यनुमानबाधोस्थानाधभावादिति भावनीयम् ॥ नोपाधिबाधाविधुरत्वमास्ते सुनिश्चितव्यापकसाधनत्वात् । धूमध्वजस्य प्रमितौ तथात्वात् न तद्भमस्तद्वदिहाऽपि साध्ये ॥ पधैरनिन्द्यैः सुपदप्रयोगचमत्कृतप्राज्ञजनैरनूनैः । आशूच्यतां स्वीयवचःप्रपञ्चचञ्चूक्तिभिर्व्यक्तितवर्णवादैः ॥ विलम्बलम्बायितकालमेते समे क्षमन्ते न सभासदोऽत्र । तन्मौनमुद्रामपहायमानोपन्यास[विन्यास-]विधिर्विधेयः ॥
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy