SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०२ साधुविजयनिवद्धम् एतन्मूलानुमानम्-नायं घट एतज्जनकानित्यज्ञानेतरज्ञानजन्यः, कार्यत्वात् , पटवत् । तथा--- घटोऽयमेतद्घटनिष्ट(ठ)वाध्यधर्मातिरिक्तोत्तरधर्मसाध्य । वेविद्यते मेयपदोपपन्ना खेतो. परब्रह्म[व]दत्र चिन्त्यम् ॥ मूलानुमानं वेदम् अयम् [घट] एतद्घटनिष्टा(छा)त्यन्ताभावान्यधर्मप्रतियोगी, मेयत्वात् , ब्रह्मवत् । एते उभेऽपि प्रपञ्चसाधके । तथा अंशिन. स्वाशगां(म)त्यन्ताभावस्य प्रतियोगिनः । अंशत्वादितराशीवदिगेव गुणादिपु । मुलानुमानमिदम्-अयं पट एतत्तन्तुनिष्टा(ठा)त्यन्ताभावप्रतियोगी अवयि(य). व(वि)त्वात् पटान्तरवत् । एते उभेऽपि प्रपञ्चमिथ्यात्वसाधके । तथा अयं पट एतत्तन्तुनिष्टा(ठा)त्यन्ताभावप्रतियोगी मेयत्वात् , ब्रह्मवदिति । एतत्प्रपञ्चसत्यत्वसाधकम् अस्त्येव कश्चिज्जगत• प्रमाणादसम्भवद्वाधकतः प्रमाता करस्थमुक्ताफलवत् परोक्षपरोपदेशानुपपत्तितश्च ॥ नास्त्येव कश्चिजगतः प्रमाता तद्ग्राहकस्य प्रमितेरभावात् । नास्त्येव यद्ग्राहकता प्रमाणे र्न तद् यथा तुङ्गतुरङ्गशृङ्गम् ॥ इति सर्वज्ञसाधकोत्थापकानुमाने । एवं च यथायुक्तिगद्यपधैरनुमानानि कृत्वा कण्टकोद्धारोऽप्येवं निर्विलम्बं विधेयस्तथुक्तिश्चैवम् न चात्र पक्षक्षपदक्षदोसश्लेषपोष' परिपोस्फुरीति । आख्यायते चेदथ तद्गदोषो निवेद्यतां तत् कतमश्चकास्ति ॥ पक्षे प्रतीतत्वनिराकृतत्वानभीष्टता साध्यविशेषणेपु ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy