SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हेतुखण्डनपाण्डित्यम् । मन्यं धर्म संशोध्य सकलोपाधिलक्षणभावनां विमृश्य प्रत्युपाधिरुद्भाव्य इति तत्वम् । तच्च दर्श्यते-यथा कश्चित् सौगतमतानुगतः सर्वपदार्थेष्वेकान्तक्षणिकत्वसाधनाय कण्टकोद्धारबन्धुरमनुमानं पद्यरूपमवीवदत् यत् सत् तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा। नाप्येकैव विधान्यदापि परकृन्नैव क्रिया वा भवेत् दूधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ [ज्ञानश्री] व्याख्या । सर्वे भावाः क्षणिकाः सत्त्वात् । यत् सत् तत् क्षणिक यथा जलधरः । सन्तश्चेमे भावाः । तस्मात् क्षणिका इति पञ्चाङ्गव्यवस्थायामपि बौद्धैाप्त्युपनयरूपाङ्गद्वयस्यैव स्वीकारादत्रानुमाने काव्यप्रथमपादे व्याप्त्युपनयौ दर्शयति । यत् सत् तदित्यादि । अथ हेतुकृता . सत्ता किंरूपाऽभीष्टेत्याह सत्तेति । इहानुमानेऽर्थकर्मणि अर्थक्रियाया शक्तिः सामर्थ्य सत्तेत्युच्यते । यदेवार्थक्रियाकारि तदेव परमार्थसदिति । तदागमवचनादर्थक्रियाकारित्वमिति यावत् सत्तेष्टा इति, हेतोः स्वरूपमुक्त्वाऽसिद्धतां परिजिहीर्घः पक्षधर्मत्वं दर्शयति । मितेः- प्रत्यक्षादिरूपायाः सिद्धेषु पक्षीभूतेषु भावेषु सा सत्ता सिद्धा । मितेरपि पदस्योभयत्र सम्बन्धात् स्वरूपासिद्धता आश्रयासिद्धतापि परिहृता । असिद्धतां परिहृत्य विरुद्धता परिजिहीर्घविपक्षस्यैव नित्यैकस्वभावस्य वस्तुनोऽभावं प्रसङ्गदोषपूर्वकं प्रकटयति । नाप्येकैव विधेति नापि वस्तुन एकैव विधा एक एव प्रकार. सर्वकाल नित्यैकस्वभावत्वमिति यावत् । तथास्वीकारे प्रसङ्ग अन्यदापि परकृदिति । यदि हि वस्तु नित्यैकस्वभाव स्वीक्रियते तदा स्वेष्टकालवत् कालान्तरेऽपि परकृदिति ज्ञानादन्योऽर्थः पर इति वचनादर्थकृत् अर्थक्रियाकारि भवेत् । यथा कुम्भकारादिः प्रतिनियतकाले घटाद्यर्थक्रिया कुरुते तथा सर्वस्मिन्नपि काले कुर्यादित्यर्थः । दोषान्तरमाह नैव क्रियेति । वा अथवा नित्यैकस्वभावे वस्तुनि क्रिया नैव भवेत् । एव शब्दोऽवधारणार्थत्वात् । सर्वकालमपीति । अयमभिप्रायः। प्रतिनियतकालात् कालान्तरे यद्यर्थक्रिया न स्वीक्रियते तदा प्रतिनियतकालेऽप्यथक्रिया न स्यात् । अर्थक्रियाकरणाकरणरूपस्वभावद्वयाङ्गीकारे नित्यैकस्वभावत्वक्षि(क्ष)तेरिति । इत्थमुभयथा प्रसङ्गदोषाविर्भावादर्थक्रियामुत्थापयता प्रतिपक्षस्य नित्यैकस्वभावस्य वस्तुनोऽवस्तुत्वमभ्यधायि । अनर्थक्रियाकारि अवस्त्विति बचनात् । विपक्षाभावाच्चायं हेतुर्न विरुद्ध इति । नाप्यनैकान्तिकस्तत एवेति स्वयं ज्ञेयम् । एवं दोषोद्धारं विधाय साध्ये एव हेतोश्च विश्रान्ति समर्थयति । द्वेधापि
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy