SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ साधुविजयनिवद्धम् तस्मान्मिथ्या' इति । नैयायिकाद्यनुसारेण पञ्चावयवप्रयोगमाव(मारच)यति स्म । जैमु(मि)निमुनिविनेयमीमांसकाद्यनुसारेण त्र्यवयवम् , बौद्धानुसारेण द्वयवयवमिति विभागः । तत्र विवादपदग्रहणं प्रपञ्चैकदेशे सिद्धसाध्यताव्युदासार्थम् । लोके विवादपदस्यानेकरूपत्वं तथापि मिथ्येति साध्यग्रहणेन यत्र सत्यत्वमिथ्यात्वाभ्यां विवादः स एव धर्मो ज्ञेयः। अत्रेश्वरकृतस्य जगतो मिथ्यारूपत्वमाकर्ण्य सकर्णाकर्णनीयमनर्थक्रियाकारित्वोपाधिमुद्भाव्य हेतोरप्रयोजकत्वं चक्रे दक्ष्यो(क्षो)ऽक्षपादमुख्यः । तद्योजना चेयम्-यद् यद(द्) दृश्यं तत् तदनर्थक्रियाकारि इति नास्ति, पक्षेण व्यभिचारात् । यन्मिथ्या तदनर्थक्रियाकारि, यथा मरुमरीचिकासु जलज्ञानम् । यदनर्थक्रियाकारि तन्मिध्या, यथा द्विचन्द्रज्ञानम् । व्यतिरेकस्त्वेवम्-यदनर्थक्रियाकारि न भवति तन्मिथ्यारूपमपि न भवति, यथा ब्रह्म इत्युपाधिः । अत्र निर्विलम्बं प्रत्युपाध्युद्भावनाय मूलानुमानदृश्यत्वहेतुवैपरीत्यमदृश्यत्वं प्रत्युपाधि । अत्र मूलानुमानहेतोरप्रयोजकत्वं कृतमुपाधिना स्वव्यावृत्त्या साध्यमपहरता । ततश्चैवमनुमानमभूत् यथा 'विमतं मिथ्यारूपं न भवति, अर्थक्रियाकारित्वात्, ब्रह्मवत्' इति । अत्र प्रत्युपाधिभावना चेयम् यदर्थक्रियाकारि तददृश्यमिति नास्ति, पक्षण व्यभिचारात् । यददृश्यं तन्मिध्या न भवति, यथा परमाणुः । यन्मिथ्या न भवति तददृश्यं यथा ब्रह्म । व्यतिरेकस्त्वेवम्-यददृश्यमिति न भवति तन्मिथ्यैव भवति, यथा शुक्तिकलधौतज्ञानमिति । एव च मूलानुमानमेवागतम् । यथा विमतं मिथ्या दृश्यत्वात् , शुक्तिशकलकलधौतवदिति । अथात्रापि केनाप्युपाधिराविर्भाव्यते । तदा स ज्वलन्स्फुल्लिङ्गचक्रचक्रकस्फोरणेन तिरस्करणीयः इति । पुनरपि मुग्धमेधाविवृद्धयेऽपरमपि-~-यथा विमतं बुद्धिमत्पूर्वकम्, कार्यत्वात् , घटवदित्यत्र सपक्षस्यासाधारणो धर्मः पक्षेऽवर्तमानो दृश्यशरीरकर्तृकत्वम् । तत्रापि पूर्ववदुपाघिव्यतिरेकसपक्षे गगनरूपेऽकार्यत्वं प्रत्युपाघिरिति । सर्वत्रानुपलभ्यमानगुणत्वहेतुना मात्मनोऽसर्वगतत्वसाध्ये घटसपक्षे मूर्तत्वमुपाधिस्तव्यतिरेकसपक्षे सर्वत्रोपलभ्यमानगुणत्वं प्रत्युपाधिस्तद्व्यतिरेकान्मूलानुमानमिति । एव सर्वत्र यत्र प्रतिवादिनोपाधिरुद्भाव्यते तदैव तत्पादुिपाधिव्यतिरेक. कार्यते । तद्व्यतिरेके व्यभिचारादिदर्शने उपाधिवैयर्थ्यम् । तदसम्भवे च तत्सपक्षे मूलानुमानहेतुवैपरीत्य प्रत्युपाधिस्तव्यतिरेकान्मूलानुमानमेव भवेदेवं निर्विलम्बमेव प्रत्युपाघिप्रकाशो भवेदिति तत्त्वं पूर्व प्रायोभणनात् । उपाधिव्यतिरेकसपक्षेऽसाधारण
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy