SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ___ साधुविजयनिवद्धम् इति अर्थक्रियायाः पक्षे प्रमाणसिद्धत्वाद् विपक्षे उक्तप्रकारेणानुपपत्तेश्चेति द्वेधापि क्षणभङ्गसङ्गतिरस्ति । अतश्चार्थक्रियाहेतुः साध्ये क्षणिकत्वे विश्राम्यति क्षणिकत्वं साधयतीति वृत्तार्थः । एतदाकर्ण्य कोपाटोपप्रकम्पमानतनुः संख्यावतां मुख्यः सांख्यः सर्ववस्तुषु आविर्भावतिरोभावाभ्या सदुत्पत्ति साधयन् एकान्तनित्यत्वमङ्गीकुर्वन् तत्क्षणिकैकान्तनिराकरणायातद्रूपत्वोपाधिप्रबोधनेन साधनस्याप्रयोजकत्वं कृतवान् । तत्र साध्यव्यापकत्वसाधनाव्यापकत्वभावना पूर्ववत् । व्यतिरेकस्त्वेवम्य दतद्रूपं न भवति तत् क्षणिकमपि न भवति यथा व्योम । आविर्भावतिरोभावोपपत्तिभावनाप्रपञ्चः स्वयमेव प्रामाणिकैरवधार्यः । प्रत्युपाधिशिक्षामात्रत्वादस्येति । __ अथात्र बौद्धस्तूपाधिनिघाटनाय प्रत्युपाधि प्रकटयति अमूर्तत्वलक्षणम् । साध्यसाधनयोाप्त्यव्याप्ती पूर्ववत् । विधेये व्यतिरेको दयते । यदमूर्तं न भवति तन्नित्यमपि न भवति, यथा प्रदीपलिका । एवं च मूलानुमानमेवमागतम् । यथा सर्व क्षणिक सत्त्वाज्जलधरवदिति । एवं मूलानुमानसाधनव्यतिरेकात् पूर्वभावितादन्यो धर्मः उपाधिव्यतिरेकनिदर्शने संशोध्योपाधिनिराकरणाय प्रत्युपाधित्वेन पठनीयः । एवं चोपाध्युन्नीतासिद्धविरुद्धानेकान्तिकादयो दोषा निराकृता भवन्तीति तात्पर्यम् । ___ एकान्तक्षणिकाक्षणिकपक्षयोः पौरस्त्योपाधिपुरश्चरप्रत्युपाधिविधुरत्वेन कथमप्यर्थक्रियाकारित्वोपपत्त्यदर्शनादनेकान्धस्पष्टस्पृष्टगजाऽसक(त्क)त्पविकल्पजल्पिनो जनानिव विवदमानानालोक्य कोऽपि सर्वज्ञोपजवस्तुव्यवस्थया तत्रार्थक्रियाकारित्वोपपत्तिसिद्धिसाधकमतुमानं वदति जैनः-नित्यानित्यात्मकं वस्तु, अर्थक्रियाकारित्वान्यथानुपपत्तेः इत्यत्र तथा स्याहादरूपिषु 'सदसदभिलाप्यानभिलाप्यसामान्यविशेषात्मकवस्त्वनन्तधर्मात्मकत्वात् [इत्या]धनुमानेष्वन्तर्व्याप्तिरूपेषु निश्चिततथोपपत्त्यन्यथानुपपत्त्या निर्णीतपक्षधमित्वविपक्षव्यावृत्तिरूपया उपाधेर्दूरापास्तत्वादसिद्धविरुद्धानकात्तिकादीनां शङ्कापि त कार्या तथा सौगतोदितस्वभावकार्यानुपलब्धिरूपहेतुषु त्रिषु। तत्रैकादशातुफ्लब्धिरूपे तृतीये हेतावपि नोपाधि ।। तत्र चैंकादशानुपलब्धिष्वाद्याश्चतस्रो दयन्ते । तत्र विरुद्धोपलब्धियथा नात्र शीतस्पर्शोऽग्नेरिति ।१ विरूद्धकार्योंपलब्धिर्यथा नात्र शीतस्पर्टी धूमादिति १२ कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति ।३ स्वभावानुपलब्धिर्यथा नास्त्यत्र घट उपलब्धिलक्षणप्राप्तस्याप्यनुपलब्धेरिति ।४ शेषास्तु सप्ताप्यनुपलब्धयो धर्म(न्याय) विन्दुशास्त्रप्रतिपादिताः प्रतिभेदरूपत्वेन एष्वेवान्तर्भवन्तीति पृथग नोपदर्शिताः ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy