SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ THE TEXTS लोला त्वनुतिलोलुपा तव गुणग्रामायते मे श्रुति नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी । शीर्ष त्वत्पदमण्डनं तव विभो ध्यानकतानं मनो जातं तन्मम सर्वमेव शुभकृदात्माप्ययं स्वन्मयः ॥१७॥ शस्य त्वद्गुणचक्रवालजलधेः पारं न यामि प्रभो आत्मीयोत्कटदुष्टदुष्कृततते! यामि पारं पुनः । तस्माद्देव तथा विधेहि भगवन् प्राप्नोमि पारं तयोः - सम्यक्त्वेन विधाय भव्यकरुणां कारुण्यपात्रे मयि ॥१८॥ श्रीखण्डागुरुधूपवासनिवहैः कर्पूरपूरैस्तथा काश्मीरद्रवसान्द्रचान्द्रविहितैः सद्वन्दनैश्चान्दनैः । स्वामिस्त्वत्पदयामलं गतमलं येऽर्ध्वन्ति चर्चाचणा लोके लोकिततत्त्वसत्त्वसहितास्तेऽप्यर्चनीयाः सदा ॥१९॥ विष्णुस्त्वं भुवनेऽसि भूपतिरसि श्रेयस्करः शङ्करो धाता सत्यमहाव्रती शतधतिः कालारिरुग्रस्तथा । ऋद्धया सिद्धियुतः कृतीजजनको गौरीगुरुस्त्वं सदा जैन नेतरैश्चाद्भुततरविभवर्गीयसेऽस्यां जगत्यां ॥२०॥ सूरिश्रीविजयप्रभादिसुगुरौ राज्यस्थितिं कुर्वति प्रीत्येवं नयपूर्वताविमलयुङ्नाम्ना प्रभुः संस्तुतः । भूयास्त्वं भवभीतिभेदभिदुराकारोपमानः सदा स्व‘मद्रुमसान्नभो मम पुनः सर्वार्थसम्पत्तये ॥२१॥ 117
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy